Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्व व्यवस्थापनवादस्थलम्
ताव अणुसज्जणा दुहं ॥ १ ॥ सव्वजिणाणं निच्चं बकुसकुसीले हि वट्टए तित्थं' इत्यादि मन्तव्यम् । ततः पार्श्वस्थादीनामेकान्तेनावन्द्यत्वाऽक्षराणि भयवाक्यतयैव स्वीकर्तव्यानि नमस्काराद्युपधानवत् । भयवाक्यं हि श्रुत्वा मन्दसंवेगोऽप्यतीव शुद्धः स्यात् । एवं च 'पासत्यो ओसन्नो कुसीलोसन्न० असुइठाणे' इत्यादि वाक्यानि भयवाक्यत्वेन पार्श्वस्थत्वादिकारणशय्या तरपिण्डादानादित्याजनपराणि पार्श्वस्थादिसंसर्ग निषेधपराणि च बोद्धव्यानि । नतु तेषां सर्वथा अवन्द्यख्यापनपराणि । यथाहि लोके दुर्विनीतं पुत्रादिकं प्रति एतस्य भोजनं न दातव्यमित्यादिवाक्यानि दुर्विनीतशिक्षापराणि, न तु भोजननिषेधपराणि । यतः - ' विहि-उज्जम - भय वण्णय - उस्सग्ग- ववाय - तदुभयगयाई । सुताई बहुविहाई समये गंभीरभावा ॥ १ ॥ तेसि विसयविभागं अमुणंतो नाणवरणकम्मुदया । मुज्झइ जीवो तत्तो सपरेसिमसग्गहं जणइ ||२|| त्ति धर्मरत्ने । किञ्च यदि पार्श्वस्थादिसङ्गति निषेधवाक्यानि न भयवावयतयाऽङ्गीक्रियते किन्तु विधिवाक्यतयैव तदानीमावश्यके श्री सम्यक्त्वदण्डके तदतीचारपञ्चके च परतीथिकानामालापान दानप्रसङ्गादिवर्जनवत् पार्श्वस्थादीनामेतद्वर्जनं कृतमभविष्यत् । चतुर्विधमिथ्यात्वे च लोकोत्तरगुरुगतमिथ्यात्वं 'दगपाणं पुप्फफलं अणेस णिज्जं हित्य किच्चाई | अजया पडि सेवंती जइवेसविडंबगा नवरं ॥ १ ॥ इति ( उप० ) गाथोक्तलक्षणसर्व पापस्थाद्यसंयतवन्दन एव सम्भाव्यते । न तु किञ्चिद्विराधकदेशपाश्वस्थादिवन्दने । यदुक्तं चैत्यवन्दना कुलके तदधिकारे 'जे लोगुत्त मलिंगा लिंगियदेहावि पुप्फतंबोलं । अहाकम्मं सव्वं जलं फलं चेव सच्चित्तं ॥१॥ भुजति थीपसंगं ववहारं गंथसंग्रहं भूसं । एगागितम्भमणं सच्छंद वंचि ( चिट्ठि) यं वयणं ॥२॥ चेइय-मठाइवासं वसहीसु वि निच्चमेव
For Private And Personal Use Only
2
१४९

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170