Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वव्यवस्थापनवादस्थलम
१५९
क्षेपादि च प्रतिक्रमणेन मिथ्यादुष्कृतेनैव शुद्धयति, न गुरुसमक्षमालोच्यते इति तत्प्रतिक्रमणं २। यत्तु गुरोः पुरः आलोच्यते तदादिष्टं प्रतिक्रामति मिथ्यादुष्कृतं च दत्ते तच्छब्दादिषु रागकरणमालोचनप्रतिक्रमणाहूं मिश्रम ३ । अनेषणीयत्यागाच्छुद्धिविवेकः ४ । दुःस्वप्ने उत्सर्गाच्छुद्धिः ५ । पृथ्वीसंघट्टादेस्तपसा शुद्धिः ६ । अशीत्युत्तरशतोपवासरूपेणोत्कृष्टतपसा शोधयितुमशक्यस्य मुनेः क्रियतेहोरात्रपञ्चकादिक्रमेण पर्यायच्छेदः । प्राणातिपाताद्यपराधेषु पुनर्वतारोपणं मूलं ८। करादिघातके न व्रतेषु स्थाप्यते तावद्यावनोत्कृष्टं तपश्चीणं, पश्चात् स्थाप्यते ९ । पाराञ्चितकमर्जयति स्वलिङगिनी-नृपभार्याद्यासेवयास त्वव्यक्तलिङगधारी कल्पिकवत् क्षेत्राहिः स्थाप्यते द्वादशवर्षाणि, यदि प्रभावनां करोति तदा शीघ्रमेव प्रवेश्यते गच्छे शुद्धत्वात् १०। एतेषु प्रायश्चित्तेषु यावदुत्कृष्टं सप्तमप्रायश्चित्तं सर्वच्छेदरूपं नापद्यते, तावत् स चारित्रसद्भावाद्वन्दनीय इति।
इति श्रीगुरुतत्त्वव्यवस्थापनवादस्थलम् (ग्रन्थ. ४००)
For Private And Personal Use Only

Page Navigation
1 ... 166 167 168 169 170