Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वव्यवस्थापनवादस्थलम्
१५७
मग्गंतरेहिं मयंतरेहिं भंगतरेहिं नियमंतरेहिं पमाणंतरेहिं संकिया कंखिया वितिगिच्छियाभेयसमावन्ना कलुससमावन्ना एवं खलु समणा निग्गंथा कंखामोहणिज्ज कम्मं वेयंति' । अत्र वृत्तौ मग्गंतरेहिं मयंतरेहिं इति पदद्वयव्याख्या-यथा मार्ग:-पूर्वपुरुषसमागता सामाचारी । तत्र केषाञ्चित् द्विश्चत्यवन्दना अनेकविधकायोत्सर्गकरणादिकावश्यकसामाचारी, तदन्येषां तु न तथेति । किमत्र तत्त्वं ? । समाधि:-गीतार्थाशठप्रवर्तिताऽसौ सर्वापि न विरुद्धा आचरितलक्षणोपेतत्वात् । आचरितलक्षणं चेदं-असढेण समाइग्नं जं कथइ केणई असावज्ज । न निवारियमन्ने हिं बहुमणुमयमेयमायरियं ॥१॥ तथा मत-समाने एवाऽऽगमे आचार्याणामभिप्रायविशेषः। तत्र सिद्धसेनदिवाकरो मन्यते-युगपत् केवलिनो ज्ञानं दर्शन च, अन्यथा तदावरणक्षयः निरर्थक. स्यात् । जिनभद्रगणिक्षमाश्रमणस्तुभिन्नसमये ज्ञानदर्शने जीवस्वरूपत्वात् । यथा तदावरणक्षयोपशमे समानेऽपि क्रमेणैव मतिश्रुतोपयोगी, न चंकतरोपयोगे इतरक्षयोपशमाग्भावः। तत्क्षयोपशमस्योत्कृष्टतः षट्षष्टिसागरोपमप्रमाणत्वात्। अतः किं तत्त्वं ?। समाधिः-यदेव मतमागमानुपाति तदेव सत्यमिति मन्तव्यम्, इतरत् पुनरुपेक्षागीयम् । अथाबहुश्रुतेन नैतदवसातुं शक्यते, तदैवं भावनीयम्-आकार्षणां सम्प्रदायादिदोषादयं मतभेदो, जिनानां तु मतमेकमेवाविरुद्धं च, सगादिरहितत्वात् । आह च-- 'अणुवकयपराणुग्गह-परायणा जंजिणा जगप्पवरा । जियरागदोसमोहा य ननहावाहणो तेण: ॥१६॥ इति । तस्माद् व्यवहारतो यतमाना यतयो धर्माणिनां वन्द्या एव । यतः धज्जियं च बबहारं बुद्धहायरियं सया। तमायरंतो बवहारं गरिहं नाभिगच्छइ ॥१॥ उत्तराध्ययन [१] ववहारो वि हु बलवं जं छउमत्थंपि वंदए अरिहा । जा होइ अणांभिन्नो जाणतो धामयं एयं ॥१॥
For Private And Personal Use Only

Page Navigation
1 ... 164 165 166 167 168 169 170