Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वव्यवस्थापनवादस्थलम्
१४८
धोक्तः । एवं ज्ञानदर्शनचारित्राणि विराधयन् कुशील इत्युच्यते इति तत्त्वतो द्वयोरपि लक्षणं एकमेव । श्रीमहानिशीथे च एवं अट्ठारसण्हं सोलंगसहस्साणं जो जत्थ पए पमत्ते भविज्जा, से णं तेणं पमायदोसेणं कुसीले जेए' इति सूक्ष्मविराधकस्याप्यश्वन्द्यकुशीलत्वोक्तेः बकुशकुशीलानां निर्ग्रन्थानामपि श्रीभगवत्यामुत्तरगुणस्थानविराधकत्वेनोक्तानां कथं नाऽवन्धकुशीलत्वं, तेषां च तथात्वे शासनोच्छेद एव । यतो यत्तीथं तत् श्रीवीरेण स्वयमेव प्रवर्तितं, यच्च समयमप्यव्यवच्छेदेन दुःप्रसहसूरिपर्यन्तं यावद् यास्यति, तत्तीथं नैव विना साधुभिः, ते (न)च तीर्थाऽभावे निर्ग्रन्था भवन्ति । यच्च कैश्चिदिष्यते-श्रावकैस्संविग्नसाधुपक्षपातिभिर्ज्ञानदर्शनचारित्रिभिरुपयास्यति, तत्पुनरनुपासितगुरोर्वचः । यतो नहि मूलबीजाभावे तदुत्तरकालभाविन्योऽकुंगद्यवस्थाः सम्भवन्ति । तथाहि-प्रथमं तावत् सर्वश्रेयोमूलकल्पो गुरुरन्वेषणीयः। ततस्तत् मुखविनिर्गतदेशनाश्रवणात् सञ्जातशुभपरिणाम: समुच्छलितजीववीर्यः समुदितसम्यक्त्वगुणादिग्रहबुद्धिः समागम्य गुरोः समीपे, नमस्कृत्य परमभक्त्या गुरोः पादपङ्कजं सम्यक्त्वसामायिकादि प्रतिपद्यते । यत उक्तं-'गुरुमूले सुअधम्मो संविग्गो इत्तरं व इअरं वा । वज्जित्तु तओ सम्मं वज्जेइ इमे अ अइआरे ।।१।। इय मिच्छाओ विरयंमि य संमओवगम्म भणइ गुरुपुरओ। अरहं' इत्यादि । आवश्यकेऽपि प्रत्याख्यानाऽध्ययने-'अहण्हं भंते ! तुम्हाणं समीवे मिच्छताओ पडिक्कमामि, सम्मत्तं उवसंपज्जामि' इत्यादिग्रन्थेन गुरुरेवाऽग्रतः कृतः । उपदेशमालायामपि-'कइयावि जिणवरिंदा' इति । न चैतत् क्वापि दृश्यते यथा श्रावस्तीर्थं यास्यतीति । एता युक्तयो दर्शनशुद्धौ पत्रे ३०२ । तस्मात् 'न विणा तित्थं नियंठेहि नातित्था य नियंठया। छक्कायसंजमो जाव,
For Private And Personal Use Only

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170