Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 154
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुतत्त्वव्यवस्थापनवादस्थलम् भूततयाऽकल्पिकस्याप्याहारादेः श्रुतभक्त्या पूजां कुरुत यूयं, न च तत्र दोषः । इयमत्रभावना - यथा कारणे पार्श्वस्थादीनां समीपे सूत्रमर्थं च गृहणतोऽकल्पिकमप्याहारदिकं यतनया तदर्थं प्रतिसेवमानः शुद्धः ग्रहणशिक्षाया: क्रियमाणत्वादेवमालोचनार्हस्यापि निमित्तं प्रतिसेवमानः शुद्ध एव आसेवनाशिक्षायास्तत्समीपे क्रियमाणत्वादिति । उपदेशमालायामपि - 'सुग्गइमग्गपईवं नाणं दितस्स हुज्ज किमदेय' मिति । ननु 'आलावो संवासो' इत्यादि वचनात् यै: सहाऽऽलापाद्यपि त्यज्यते, तेषां पार्श्वे ज्ञानग्रहणाद्रि कथं युज्यते ? । उच्यते - यदि तेभ्योऽधिकगुणाः साधवो लभ्यन्ते, तदा न युज्यते एव तेषां पार्श्वे ज्ञानग्रहणादि । तदभावे तु तेषामपि पार्श्व ज्ञानग्रहणादि युक्तमेव, आगमप्रामाण्यात् । यदि हि यदर्थं द्वादशवर्षं सुगुरून् प्रतीक्षते, साप्यालोचना गुर्वभावे पार्श्वस्थादिपार्श्वे ग्राह्यतयोक्ता 'आयरियाइ संगच्छे संभोइअ इयरगीयपासत्था । सारूवी पच्छाकडदेवयपडिमा अरिहसिद्धे ॥ १ ॥ इत्यादि जीतकल्पवचनात् तदानीं प्रतिदिनविधेयाऽऽवश्यक विधिशिक्षणादि तत्पार्श्वे सुतरां कार्यं शुद्धचारित्र्यभावे । नन्वेवं पश्चात्कृतादीनामपि `वन्द्यत्वं स्यात् ? तेषां आलोचनाधिकारेऽधिकृतत्वात् तेषां साधुवेषाभावात् । साधुवेषाभावे हि प्रत्येकबुद्धादिरपि न वन्द्यः स्यात् किं पुनरितरः । यदुक्तं श्रीपञ्चकल्पे- 'एयं तु दव्वलिंगं भावे समणत्तणं तु णायव्वं । को उ गुण दव्वलिंगे भण्णति इणमो सुणसु वोच्छं ॥ १ ॥ सक्कारवंदणनमंसणा य पूया कहणा य लिंगकप्पंमि । पत्तेयबुद्धमादी लिंगे छउमत्थतो गहणं ॥ २ ॥ वत्थासणसक्कारो वंदन अब्भट्ठाणं तु णायव्वं । पणिवायो तु नमसण संतगुणकित्तणा पूआ || ३ || दट्ठूण दव्वलिंगं कुव्वते ताणि इंदमादीवि । लिंगंमि अधिज्जते न नज्जत्ती एस विरओ त्ति ॥ ४ ॥ For Private And Personal Use Only १४५

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170