Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 153
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुतत्त्वव्यवस्थापनवादस्थलम् " यावदुरारगुणप्रतिसेवना तावद्वकुशः । ततो यावतीर्थं तावद्वकुशाः प्रतिसेव काश्चानुषञ्जन्ति-अनुवर्तन्ते । ततो नाऽचरित्रं प्रसक्तं प्रवचनमिति व्यवहारवृत्तौ १ उद्देशके १४१ पत्रे । न च पार्श्वस्मादीनामपि सर्वथा वन्द्यत्वमागमे, कारणे जाते प्रकटप्रतिसेविनामपि वन्द्यत्वाभिधानात् । तदुक्तमावश्यके - 'मुक्कधुरा सं पागडसेवी चरणकरणपब्भट्ठे । लिगावसेसमित्तं जं कीरइ तं पुणो वुच्छं ॥ १॥ वायाइ नमक्कारो हत्थुस्सेहो अ सीसनमणं च । संपुच्छsaणं खोभवंदणं बंदणं वा वि ॥ २ ॥ एयाई अकुतो जहारिह अरिदेसिए मग्गे । न भवइ पबयणभत्ती अभत्तिमतादयो दोसा ॥३॥ नन्वेतत्साधूनाश्रित्य न तु श्राद्धानैवं, 'उप्पन्नकारणमि वंरणयं जो न कुज्ज दुविहं पि । पासत्थाईयाणं उग्घाया तस चारि ॥ इति श्राद्धजीतकल्पे श्राद्धानप्याश्रित्य भणनात् । ननु किं नाम कारणं ? येन श्राद्धोऽपि पार्श्वस्थादीन् बन्दते । उच्यतेज्ञानादिग्रहणरूपग्रहणशिक्षाऽऽवश्यक विध्यादिशिक्षणरूपासेवना शिक्षे कारणतयोक्ते एवागमे । यदुक्तं श्रीव्यवहारप्रथमोद्देशकान्ते - चोयइ से परिवार अकरमाणे भाणेइ वा सड्ढे । अविच्छित्तिकरस्सओ सुलभत्ती कुणह यूयं ॥ १॥ इत्यादि । एतद्व्याख्या - प्रथमतः ' से ' तस्याऽऽलोचनाऽर्हस्य परिवारं वैयावृत्यादिकमकुर्वन्तं चोदयति - शिक्षयति-यथा ग्रहणासेवनानिष्णात एष, तल: विनयवैया : वृत्त्यादिकं क्रियमाणं महानिर्जराहेतुरिति । एवमपि शिष्यमाणो यदि न करोति, ततस्तस्मिन्न कुर्वाण स्वयमाहारादीनुत्पादयति । स्वयं शुद्धं प्रायोग्यमाहारादिकं न लभते ततः श्राद्धान् भणतिप्रज्ञापयति, प्रज्ञाप्य च तेभ्योऽकल्पिकमपि यतनया सम्पादयति न च वाच्यं तस्यैवं कुर्वतः कथं न दोष: ?, यत आह- 'अव्बोच्छि तीत्यादि । अव्यवच्छित्तिकरणस्य पावर्कस्थादेः श्रुतभक्त्या हेतु For Private And Personal Use Only १४४

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170