Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गरुतत्त्वव्यवस्थापनवादस्थलम
१४२
जो य। सो नाणाइकुसीलो नेओ वक्खाणभेएणं ॥१६॥ मूलुत्तरगुणविसया पडिसेवासेवए पुलाए अ। उत्तरगुणेसु बउसो सेसा पडिसेवणारहिया ।।१७॥ अत्र मूलोत्तर-गुणविषया विराधना पुलाके प्रतिसेवनाकुशीले वा, उत्तरगुणविषया च बकुशें, शेषाः प्रतिसेवनारहिताः इति । श्रीमदुत्तराध्ययनबृहद्वत्तावपि ६ अध्ययनेध्यमर्थः सविस्तरमुक्तोऽस्ति । तथा तत्रैव बकुशो द्विविधः उपकरणबकुशः शरीरबकुशश्च। तत्रोपकरणाभिष्वक्तचित्तो विविधविचित्रमहाधनोपकरणपरिग्रहयुक्तः (बहु) विशषो (षयुक्तो) पकरणकाक्षायुक्तः नित्यं तत्प्रति (संस्) कारसेवी भिक्षुरुपकरणबकुशो भवति । -शरीराभिष्वक्तचित्तो विभूषार्थ तत्प्रति (संस्)कारसेवी शरीरबकुशः । प्रतिसेवनाकुशीलो मूलगुणान् अबिराधयन् उत्तरगुणेषु काञ्चिद्विराधनां प्रतिसेवते । प्रज्ञप्तिस्तु-बउसे णं पुच्छा, जाव णो मूलगुणपडिसेवए होज्ज (उत्तरगुणपडिसेवए हुज्जा) पडिसेवणाकुशीले जहा पुलाए । अत्र च यत्पुलाकादीनां मूलोत्तरगुणविराधकत्वेपि निर्ग्रन्थत्वमुक्तं, तज्जधन्यतरोत्कृष्टोस्कृष्टतरादिभेदतः संयमस्थानानामसङख्यतया तदात्मकया च चारित्रपरिणतेरिति भावनीयम् । इत्युत्तराध्ययन [६] बृहद्वृत्तौ । तस्मादलं पावस्थादिलक्षणगवेषणक्लेशेन, किन्तु कालोचितयतनया यतमानाः साधवो बकुशकुशीलत्वं न व्यभिचरन्तीति वन्द्या एव । यदुक्तं श्रीजिनवल्लभसूरिभिदिशकुलक्यां-'कालाइदोशओ जइवि कहवि दीसंति तारिसा न जई ।, सव्वस्थ तहवि नस्थित्ति न चेव कुज्जा अणासासं ॥१॥ व्याख्या-कालो दु:षमा, आदिर्यस्य द्रव्यक्षेत्रकालभावादेः, स चासो दोषश्च कालादिदोषः । यद्यपिकथमपि क्वापीत्यर्थः। दृश्यन्ते न तादृशाः पूर्वमुनिसमा यतस्तथापि सर्वत्रापि कालोचितयतनायुवता अपि न सन्तीति नैवाऽनाश्वासम
For Private And Personal Use Only

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170