Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वव्यवस्थापनवादस्थलम्
नास्था विधेया इति । यतः कुग्गहकलंकरहिया जहसत्ति जहागमं च जयमाणा । जेण विशुद्धचरित्तत्ति वुत्तमरिहंतसमयंमि ॥१॥ व्याख्या-कुग्रह आगमविषयोऽनुष्ठानविषयश्च, स एव कलङकोदोषस्तेन रहिता यथाशक्ति यथागमं च यतमाना येन कारणेन विशुद्धचारित्रा-विशुद्धचारित्रिण उक्ता अर्हत्समये-जिनागमे, इतिहेतोरि(1)दंयुगीनेष्वपि साधुषु यथाशक्त्याऽऽगमानुसारितयोद्यमवत्सु सर्वथैव साधुबुद्धिविधेयेत्यर्थः । तथा-सम्मत्त-नाण-चरणाणुवाइमाणाणुगं च जं जत्थ । जाणिज्ज गुणं तं तत्थ पूअए परमभत्तीए ॥१॥ अत्र नोदक: प्राह-यदि मूलगुणानां नाशे उत्तरगुणानामपि नाशः, उत्तरगुणानां च नाशे मूलगणानामपि 'जो चयइ उत्तरगुणे अचिरेण कि सो चयइ' इत्यादिवचनात् । तस्मान्नव मूलगुणास्सन्ति नाप्युत्तरगुणास्तस्मात्स संयतो नास्ति, यो मूलोत्तरगुणानामन्यतमं गुणं [न] प्रतिसेवते, अन्यतमगुणप्रतिसेवने च मूलद्वयानामपि मूलोत्तरगुणानामभावस्तेषामभावे च सामायिकादिसंयमाभावस्तदभावे च बकुशादिनिर्ग्रन्थानामभावः। ततः प्राप्त तीर्थमचारित्रमिति । सूरिराह-चोयग ! छक्कायाणं तु संजमो जाणुधावए ताव । मूलगुण उत्तरगुणा दोण्णवि अणुधावए ताव ॥१॥ व्याख्या-नोदक ! यावत् षट्जीवनिकायेषु संयमोऽनुधावतिअनुगच्छति प्रबन्धेन वर्तते, तावन्मूलगुणा उत्तरगुणाश्च द्वयेऽप्यतेऽनुधावन्ति-प्रबन्धेन वर्तन्ते इति । व्यवहारप्रथमोद्देशकेऽपि-इत्तरसामाइअ-छेयसंजमा तह दुवे नियंठा य.। बउसपडिसेवगा ता अणुसज्जते अ जा तित्थं ॥१॥ यावत्मूलगुणा उत्तरगुणाश्चानुधावन्ति, तावदित्वरसामायिक-छेदसंयमावनुधावतः, यावच्चेत्वरसामायिकछेदोपस्थापनसंयमी, तावद् द्वौ निर्ग्रन्थावनुधावतः । तद्यथा-बकुशः प्रतिसेवकश्च । तथाहि-यावन्मूलगुणप्रतिसेवना तावत्प्रतिसेवको,
For Private And Personal Use Only

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170