Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 149
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुतत्त्वव्यवस्थापनवादस्थलम् ग्रहणेन शय्यातरपिण्डदोषाद्देशपार्श्वस्थत्वप्रसङ्गः । यदुक्तं श्री आवश्यकबृहद्वृत्तौ योगसङग्रहेषु-'थूलभद्दसामीवि तत्थेव गणियाघरे भिक्खं गिण्हइ त्ति । अथ समुदितमिति पक्षस्तहि साम्प्रतिकसाधुष्वपि केषुचिच्छय्यातराऽभ्याहतराजपिण्डग्रहणादिरूपसमुदिततल्लक्षणस्याऽभावात्कथं देशपार्श्वस्थत्वम् ? । अनया दिशाश्वसनादित्वमपि निषेध्यं, निग्गंथ-सिणायाणं पुलागसहियाण तिण्हवुच्छेओ। समणा ब उसकुसीला जा तित्थं ताव होहिंति ॥१॥ तेषां चावश्यंभाविनः प्रमादजनिता दोषलवाः । यतस्तेषां द्वे गुणस्थानके प्रमत्ताप्रमत्ताख्ये अन्तर्मुहर्त्तकालमाने । तत्र यदा अमत्तगुणस्थानके वर्तते तदा प्रमादसद्भावादश्वश्यम्भाविनः सूक्ष्मदोपलवाः सायोः, परं यावत् सप्तमप्रायश्चित्ताऽपराधमापद्यते, "सावत् स चारित्रवानेव । ततः परं न चारित्रं स्यात् । तथा चोक्तं'छेयस्स जाव दाणं तावयमेगंपि नो अइक्कमइ । एगं अइक्कमंतो अहक्कमे पंच मूलेण ॥१॥ इति । तदेवं बकुशकुशीलेषु नियमभाविनो दोषलवाः। यदि च तैर्वर्जनीयो यति: ग्यादवर्जनीयस्ततो नास्त्येव, तदभावे च तीर्थस्याप्यभावप्रसङ्ग इति । इय भावियपरमत्था, मज्जत्था नियगुरुं न मुंचंति । सव्वगुणसंपओग, अप्पाजमवि अपिच्छंता। ।१॥ इत्यादि धर्मरत्नवृत्तौ २६० पत्रे । किञ्च-, हे सौम्य ! किमेवं मुधा सम्यकसिाद्धान्तनाभिज्ञोऽपि पाश्वंस्थत्वादिदोषारोपेण साम्प्रतिकसाधून दूषयसि । यतः श्रोनिशीथेसंतगुणछायणा (गासणा). खलु, परपरिवाओ भ होइ अलियन। धम्मे य अबहुमाणो साहुपओसे य संसारो॥१॥ ततः शृणु सम्बक तत्त्वं मात्सर्यमपहाय यदि मोक्षार्थ्यसि-शास्त्रे पुलाकादयः पञ्च निग्रंन्धाः । तत्र बकुशकुशीलौ सर्वतीर्थकसणां तीर्थ यावत् प्रवर्तते । तल्लक्षण चेदं श्री भगवती २५ शत, षष्ठोद्देशकार्थ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170