Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
सप्तमो विश्रामः
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1
सिद्धिः प्राक् श्लोके उक्ता । सूत्रोक्तमप्यागमत्वमाचरणाया दर्शयति सूत्रे - सिद्धान्ते, आचरणापि आज्ञा-आगमोऽस्ति - विद्यते । यदाह - 'आयरणा विहु आणा, अविरुद्धा चैव होइ आणत्ति । इहरा तित्थयरासायणत्ति तल्लक्खणं चेयं ॥ १ ॥ असढेण समाईनं, जं कत्थइ केणई असावज्जं । ननिवारियम हिंय, बहुमणुमयमेयमायरियं ॥ २ ॥ जो पुण तमेव मग्गं, दूसे उमपंडिओ सतक्काए । उम्मग्गं पडिवज्जइ, अकोवियप्पा जमालीव ॥३॥ बृहत्कल्पे ।। ||२|| प्राक् श्लोकसम्बन्धिविवरणोक्तस्यास्य गाथात्रिकस्य मध्यादाद्यगाथायां परैरुक्तं कूटव्याख्यानमप्रमाणीकुर्वन्नाह -
अविरुद्धा तोक्तेति व्याख्या चेत्सूत्रमेव तत् । गाथायामपिशब्दात्तु, भिन्नैवाऽऽचरणा श्रुतात् ॥३॥
१११
व्याख्या- चेद्यदि, गाथायां - आयरणा विहु आणा' इत्यादि गाथायां 'अविरुद्धा श्रुतोक्तेति' व्याख्यानमास्ते । 'अविरुद्धशब्दः ' सिद्धान्तोक्त इति परपर्यायेण व्याख्येय इत्यर्थः । तत आचरणा सूत्राक्षररूपैव सञ्जाता । न सूत्रानुयायिनी । तु-पुनः, अपिशब्दात् 'आयरणावि हु' इत्यत्र अपिशब्दत आचरणा श्रुतात्-सिद्धान्ताद्, भिन्नैव-पृथगेवाऽभूत् । अतोऽविरुद्धशब्दस्सूत्रानुयायीति व्याख्येयः । इत्थं आचरणा सूत्रानुयायिनी सिद्धा ||३||
2
तस्यां तल्लक्षणं चेदं गाथायां किं यतः श्रुते । लक्षणं नाशठेनादि, तत् कूटव्याख्यया कृतम् ॥ ४ ॥ व्याख्या - यदि आचरणा सिद्धान्तात् न पृथक् । ततस्तस्यां गाथायां 'आयरणा वि हु आणा' इत्यादिरूपायां, तल्लक्षणं चेदं
For Private And Personal Use Only

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170