Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमो विश्रामः
सिद्धं चारित्रमत्रेत्थं, लक्ष्यते चाऽऽलयादिना ।
आपनदर्शनेस्तत्तु, गुरुशिष्यक्रमं प्रमा ॥१३॥ व्याख्या-इत्थममुना प्रकारेण अत्र-गूर्जरावनौ, कुत्रापि चारित्रं तिष्ठतीति सामान्यतश्चारित्रं सिद्धं । अथास्योपलक्षणमाहतच्चारित्रं आलयादिना लक्ष्यते-उपलक्ष्यते, यदाह-'आलएणं विहारेणं, ठाणाचंकमणेण य । सक्को सुविहिओ नाउं, भासावेणइएण य' ॥१॥ तत् कैरुपलक्ष्यते ?, आपन्नदर्शनैः-प्राप्तसम्यक्त्वजीवैः । पार्श्वस्थादयः आलयादिबाह्यकरणं न मन्यन्ते । यदाह'आलएणं विहारेणं ठाणा चंकमणेण य । न सक्को सुविहिओ नाउं भासावेणइएण य ॥११॥ भरहो पसन्नचंदो, सब्भितरा बाहिरं उदाहरणं । दोसुप्पत्तिगुणकरं न तेसि बझं भवे करण' ॥२॥ प्रत्युक्तं च-पत्तेगबुद्धकरणे. चरणं नासंति जिणवरिंदाणं । आहच्चभावकहणे, पंचहि ठाणेहिं पासत्था ।।१॥ उम्मग्गदेसणाए चरणं नासंति जिणवरिंदाणं । वावण्णदंसणा खलु, न हुलब्भा तारिसा दर्छ ॥२॥ ( आवश्यकनियुवितः ) तु-पुनस्तथा चारित्रं 'गुरुशिष्यक्रम' गुरुणा-चारित्रिणा स्वहस्तेन दीक्षितः शिष्य एवंविधक्रमो यत्र, तत्प्रमा-प्रमाणं । एवं जिनबिम्ब स्थापनाचार्यादीनामेव, पुरतो मृहीतदीक्षाया गृहीतोत्थापनायाश्चाप्रामाण्यात् । तद्ग्राहकाणां क्रियापराणामपि अनवस्थितकोत्सूत्रतया देशतः पार्श्वस्थत्वाद्देशतस्सर्वतो यथाच्छन्दत्वात् अवस्थितकोत्सूत्रतया सङघबहिस्त्वात् . अमीषां मोक्षहेतुभाववृद्धरुपायस्याऽसत्त्वात्,यदाह'जो अखंडियचारित्तो, वयगणाउ जो उ गीयत्थो। तस्स सकासे दसण वयगहणं सोहिकरणं च ॥१॥ उक्तं चाष्टकेषु श्रीहरिभद्रसूरिपादै:--'अत एवागमज्ञोऽपि, दीक्षादानादिषु ध्रुवं । क्षमाश्रमणहस्तेने त्याह सर्वेषु कर्मसु ॥१॥ इदं तु यस्य नास्त्येव, स मोपायेऽपि वर्तते । भाववृद्धः स्वपरयोर्गुणाद्यज्ञस्य सा कुतः ?।।२॥ [ अष्टकम् ] ॥१३॥
For Private And Personal Use Only

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170