Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 143
________________ Shri Mahavir Jain Aradhana Kendra गुरुतत्त्वप्रदीपे www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एतत्तु क्षेमकीर्त्याद्ये व्बशठत्वाद्यथाऽऽगमम् । चेत्प्राग् ने भ्यस्तपोवडूम-स्तनाऽर्वाक् पद्मनाभतः ॥ १४॥ व्याख्या - एतद् गुरुशिष्यक्रमं चारित्रं क्षेमकीर्त्याद्येषु आचार्यश्री विजयचन्द्रसूरिशिष्याऽऽचार्यश्रीक्षेमकी तिसूरिप्रभृतिषु विशिष्टं यथागमं आगमानतिक्रमेण, कस्मात् ?, अशठत्वात् यथाशक्तिचर्यातः । एवमधुनाऽगमप्रमाणेन चारित्रं न वर्तते यत्केचिदिति वदन्ति तदुत्सूत्रमेव " असढो सव्वत्थ चारित्ती" इति वाक्यतः । अत्राहुः कुपाक्षिकाः- तपोवन्तोऽपि पश्चात्याः उच्यते एभ्यस्तपोवन य प्राक् पूर्वं चारित्रं नासीत् इतिचेत्, ततः पद्मनाभ तो भविष्यत्तीर्थकरात् अर्वाक् चारित्र न भवति, व्यवच्छिन्नस्य चारित्रस्य तीर्थकरे एवोत्पादात् दृश्यते च चारित्रं भवत्सम्मतं तपोवत्सु । अतस्त्रिभुवनगुरोः श्रीमहावीरात् गुरुशिष्य क्रमेणाऽऽगतमेतदेतेष्विति बलादापन्नम् ||१४| , - , - १३४ स्वावधि तच्च क्षेत्रेऽत्रा - प्रतोप्येभ्यो भविष्यति । स्तोकेष्वप्येषु चारित्रं वज्यदुः प्रसहादिवत् ||१५|| व्याख्या - तच्चारित्रं स्वावधि निजावधि यावत्, अत्रास्मिन् क्षेत्रे - गूर्जरावनिप्रभृतिके, अग्रतो एभ्यस्तपोवद्ध यो भविष्यति । य एभिस्तपोवद्भिर्दीक्षितास्त एव चारित्रिण इत्यर्थः । इति बलादापन्नं । एषु तपोवत्सु स्तोकेष्वपि तपोवत्सु चारित्रमरित । न चात्रेदमाशङ्कनीयं यत् अपरं सर्वमप्यचारित्रं, एकस्मिन्नेवास्मिन् गच्छे चारित्रमिति कथं घटते ? 'वज्र' 'त्यादि । यथा प्रभुश्रीवयस्वामिशिष्ये व वज्रसेने, एकस्मिन्नपि चारित्रं अभूत् । तथा यथा दुःप्रसहाऽऽचार्येऽल्पपरिवारेऽपि चारित्रं भविष्यति, तथैष्वपि स्तोकेषु चारित्रं सिद्धमिति ।। १५ ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170