SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमो विश्रामः सिद्धं चारित्रमत्रेत्थं, लक्ष्यते चाऽऽलयादिना । आपनदर्शनेस्तत्तु, गुरुशिष्यक्रमं प्रमा ॥१३॥ व्याख्या-इत्थममुना प्रकारेण अत्र-गूर्जरावनौ, कुत्रापि चारित्रं तिष्ठतीति सामान्यतश्चारित्रं सिद्धं । अथास्योपलक्षणमाहतच्चारित्रं आलयादिना लक्ष्यते-उपलक्ष्यते, यदाह-'आलएणं विहारेणं, ठाणाचंकमणेण य । सक्को सुविहिओ नाउं, भासावेणइएण य' ॥१॥ तत् कैरुपलक्ष्यते ?, आपन्नदर्शनैः-प्राप्तसम्यक्त्वजीवैः । पार्श्वस्थादयः आलयादिबाह्यकरणं न मन्यन्ते । यदाह'आलएणं विहारेणं ठाणा चंकमणेण य । न सक्को सुविहिओ नाउं भासावेणइएण य ॥११॥ भरहो पसन्नचंदो, सब्भितरा बाहिरं उदाहरणं । दोसुप्पत्तिगुणकरं न तेसि बझं भवे करण' ॥२॥ प्रत्युक्तं च-पत्तेगबुद्धकरणे. चरणं नासंति जिणवरिंदाणं । आहच्चभावकहणे, पंचहि ठाणेहिं पासत्था ।।१॥ उम्मग्गदेसणाए चरणं नासंति जिणवरिंदाणं । वावण्णदंसणा खलु, न हुलब्भा तारिसा दर्छ ॥२॥ ( आवश्यकनियुवितः ) तु-पुनस्तथा चारित्रं 'गुरुशिष्यक्रम' गुरुणा-चारित्रिणा स्वहस्तेन दीक्षितः शिष्य एवंविधक्रमो यत्र, तत्प्रमा-प्रमाणं । एवं जिनबिम्ब स्थापनाचार्यादीनामेव, पुरतो मृहीतदीक्षाया गृहीतोत्थापनायाश्चाप्रामाण्यात् । तद्ग्राहकाणां क्रियापराणामपि अनवस्थितकोत्सूत्रतया देशतः पार्श्वस्थत्वाद्देशतस्सर्वतो यथाच्छन्दत्वात् अवस्थितकोत्सूत्रतया सङघबहिस्त्वात् . अमीषां मोक्षहेतुभाववृद्धरुपायस्याऽसत्त्वात्,यदाह'जो अखंडियचारित्तो, वयगणाउ जो उ गीयत्थो। तस्स सकासे दसण वयगहणं सोहिकरणं च ॥१॥ उक्तं चाष्टकेषु श्रीहरिभद्रसूरिपादै:--'अत एवागमज्ञोऽपि, दीक्षादानादिषु ध्रुवं । क्षमाश्रमणहस्तेने त्याह सर्वेषु कर्मसु ॥१॥ इदं तु यस्य नास्त्येव, स मोपायेऽपि वर्तते । भाववृद्धः स्वपरयोर्गुणाद्यज्ञस्य सा कुतः ?।।२॥ [ अष्टकम् ] ॥१३॥ For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy