________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
१३२
ine
क्षेत्रे यत्राऽऽगमस्तत्र, चारित्रं स्याद् यदुच्यते । - तीर्थ विना न निर्गन्ध-स्सूत्रार्थी तीर्थमागमे ॥१०॥
व्याख्या-अहो पार्श्वस्थ ! यत्र-यस्मिन् क्षेत्रे आगमस्तत्र चारित्रं स्यात् । अस्यां गूर्जरधरित्र्यां आगमो वर्तते । भवतोऽपि सम्मतमेतत् । तदत्रा वश्यं चारित्रेणापि भवितव्यमित्यर्थः। किमित्याह-यत् आगमे उच्यते-निर्ग्रन्थविना तीर्थं न भवति । यदाह-न विणा तित्थं नियंठेहिं नातित्था य नियंठया। छक्कायसंजमो जाव ताव अणुसज्जणा दुण्हं ॥शा तीर्थं सूत्रार्थो । तीर्थशब्देन सूत्रार्थो उच्यते । यदाह-सुयधम्मतित्थमग्गो पावयणं पवयणं च एगट्टा इति सूत्रार्थयो मानि, न वक्तव्यमेतत् त्वया, यदधुना चारित्रं कृतस्तिष्ठतीति ? ॥१०॥
श्रद्धानं ज्ञानहीनं न, न श्रद्धानं विनाऽऽगमः । जानश्रद्धानयोस्सिद्धिरेवं स्याद् गूर्जरावनौ ॥११॥
एष केषाञ्चिदादेश-स्ताभ्यां तीथं प्रवर्तते । छिन्नं चरित्रं तेषां तु, चत्वारो भारिकाः श्रुते ॥१२॥ युग्मम्
व्याख्या-श्रद्धानं-सम्यक्त्वं, ज्ञानहीनं न स्यात् । श्रद्धानं विना आगमो न भवति, श्रद्धानवद्भिरेवाऽऽगमस्य विस्तार्यमाणत्वात् । अतो गर्जरावनौ आगमदर्शनेन ज्ञानश्रद्धानयोस्सिद्धिर्भवत्सम्मता स्यात् । ततः केषाञ्चिदाचार्याणां एष आदेशो-यत्ताभ्यां-ज्ञानदर्शनाभ्यां तीर्थं प्रवर्तते । चारित्रं छिन्नं-त्रुटितं । तु-पुनस्तेषांमाचार्याणां श्रुते-सिद्धान्ते, चत्वारो भारिकाः प्रायश्चित्तं. उक्तम् । अधुना चारित्रं न वर्तते इति जल्पकस्य चत्वारो भारिकाः प्रायश्चित्तमायातीत्यर्थः । यदाह-केसिंचि य आएसो, दसणनाणेहि कट्टई तित्थं । वुच्छिन्नं तु चरितं, वयमाणे भारिया चउरो ॥११॥१२॥ युग्मम् ।
For Private And Personal Use Only