SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टमो विश्रामः www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सचराचरलोकव्यवहारमाह तत्रापराधी यः स्यात् स, शुद्धचित्तोऽपि बाध्यते । निरागा दुष्टचित्तोऽपि मन्यतेऽज्ञातमानसः ॥७॥ १३१ | व्याख्या- तत्र-सचराचरलोके, योऽपराधी-प्रकटापराधी स्यात्, स शुद्धचित्तोऽपि केन कुकर्मणा दुःकृतमिदमहङकाराय हा ! किमेत'न्मया कृतमित्यादिपरिणामोऽपि बाध्यते निरागा- बाह्यवृत्त्या निरपराधो, दुष्टचित्तोपि खात्रखननाद्यमहं करिष्यामीत्यभिप्रायोपि अज्ञातमानसस्सन् मान्यते व्यवहारे मन्यते । तथा यतिरपि बाह्यषजीवनिकायवषकः शुद्धचित्तोप्यवन्दनीयः । बाह्यषड्जीवनिकायरक्षोऽशुद्धचित्तोपि वन्दनीयः । उभयोरपि चित्तयोर प्रत्यक्षत्वात् ॥७॥ दुः करत्वान्महात्मान्त-विक्रियस्सत्क्रियः कथम् ? | सहस्त्रेषु तथाथ स्यादेकः कोऽपि परेऽपि किम् ? ॥८॥ व्याख्या - महात्मा चारित्री, यदि अन्तविक्रियो दुष्टचित्तस्ततः कथं सत्क्रियो बहिश्चारित्री, बाह्यसत्क्रियादर्शने चित्तान्त: शुद्धपरिणामो लभ्यते इत्यर्थः । कथमित्याह- दुःकरं चारित्रं इति हेतोः । अथ सहस्रेषु सहस्राणां मध्ये, एकः कोऽपि उदायिनृपमारका दिसदृशः तथा दुष्टचित्तः स्यात्, ततः किं परेऽपि सर्वेऽपि दुष्टचित्ताः ? शेषाः शुद्धचित्ता एवेत्यर्थः । अतो बाह्यक्रियां निरीक्ष्य नमस्कर्तुः पुण्यमेवेति ||८|| चित्तशुद्धिस्तवाप्याऽऽस्ते, यदि कृत्ये कियत्यपि । सर्वेष्वपि हि कृत्येषु सिद्धा सा तन्महात्मनाम् ॥९॥ व्याख्या - अहो पार्श्वस्थ ! तवापि यदि कियत्यपि कृत्ये - अभक्ष्यभक्षणादिके चित्तशुद्धिरास्ते । उत्तरार्द्धं स्पष्टं ॥ ९ ॥ For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy