________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
पूज्यत्वं यदि वेषे तत्किं नमन्ति न साधवः ?।
पूजनीये न भेदोऽस्ति, श्राद्धसाध्वोर्यतस्सदा ॥३॥ व्याख्या-यदि वेषे पूज्यत्वं-पूजनीयत्वं ततस्साधवश्चारित्रिणो वेषे किं न नमस्कुर्वन्ति ? यतस्सदा-सर्वदा, श्राद्धचारित्रिणोः पूजनीये वस्तुनि भेदः-पृथक्त्वं न अस्ति-विद्यते, यत् श्राद्धस्य पूजनीयं, तत्तत् साधोरपि पूजनीयं यदि । रजोहरणमुखबग्त्रिकादिमात्रमेव चारित्रव्यतिरिक्तमपि श्रावकस्य पूजनीयं ततःसाधोरपि पूजनीयमेव स्यात् ॥३॥
सांधवः प्रत्युत्तस्य, कुर्वन्त्याशातना सहा।
तद्रागं च न कुर्वन्ति, त्वदीये त्वन ! पूजनम् ॥४॥ व्याख्या-प्रत्युत साघव एतस्य वेषस्य सदा आशातनां परिधानादिना कुर्वन्ति । तथा तद्रागं-तस्य रागं न कुर्वन्ति । आशातनाकरणात् प्रशस्तस्यापि रागस्याकरणाच्च । वेषे साधूनामपूजनीयत्वमेवेत्यर्थः। तु-पुनः, हे अज्ञ-मूर्ख !, मुग्धश्राद्धस्य सम्बोधनमिदं । त्वदीये वेषस्य पूजनं । तवेत्थमेषा मुग्धतेव, न विवेकिता ॥४॥
P: कुलकमायातः, प्रमा चेत्तद्धियानया। योजितोपि मियात्वं, तच्चारित्री गुरुः प्रमा ॥५॥स्पष्टः।।
अज्ञानेन मया यं, साध्यसाध्योर्मनः कथं ? । व्यवहारनयस्तीर्थे, सचराचरलोकवत् ॥६॥ व्याख्या-पूर्वार्द्धन परपृच्छा। उच्यते-तीर्थे व्यवहारनयः प्रमाणं, यदाह-जइ जिणमयं पवज्जह, ता मा व्यवहारनिच्छयं भयह । ववहारन यच्छेए तित्थुच्छेओ मुणेयव्वो ॥१।। कस्मिन्निव ?, सचराचरलोकवत् । यथा सचराचरलोके व्यबहारनयः प्रमाणं, तथा सङधेऽपि ॥६॥
For Private And Personal Use Only