________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमो विश्रामः
१२९
rrrrrrror
RANDRA
अष्टमो विधामः। कश्चिन्मुग्धो वदत्येव-विचारः कोऽत्र लिङिगषु ? ।
राजशासनमृतत्तद्, युक्तियुक्तं न भाति नः ॥१॥ व्याख्या-कश्चित्सोमनीतिकृद्दिगम्बरो मुग्ध एवं वदति-अत्र लिङ्गिषु-दर्शनिषु को विचारः? कोपि विचारो न कर्तव्य इत्यर्थः । कस्यामिव?, राजशासनमृद्वत्-राजादेशमृत्तिकायामिव, यदाह: राजशासनमृत्तिकायामिव को नाम लिङ्गिविचारः । तदेतस्य मुग्धस्यापि वचो नोऽस्माकं युक्तियुक्तं न भाति-प्रतिभासते.॥शा दिगम्बरवचसः खण्डनव्याख्यानेन युक्ति दर्शयन्नाह
यतिर्यातप्रतिको हि, पतिता मृत्तिकाऽत्र तत् । राजाज्ञाऽस्यां विचारः को-सम्बिग्धत्वाद् बहिःकृतिः ॥२॥
व्याख्या-हि-र्यस्मात्कारणात् यतितिप्रतिज्ञो-भ्रष्टप्रतिज्ञः, पतिता मृत्तिका-मृतोऽत्र-जिनशासने, भण्यते । 'सावज्जं जोगं पच्चक्खामी'ति भणित्वा पुनस्सावद्या सेवनेन भ्रष्टप्रतिज्ञस्य पञ्चत्वाप्तिभणनं युक्तमेव, उवतं च-“वरं प्रविष्टं ज्वलिते हताशने, न चापि भग्न चिरसञ्चितं व्रत । बरं हि मृत्युस्सुविशुद्धकर्मणा, न चापि शीलस्खलितस्य जीवितं ॥१॥ ततोऽस्यांपतितमृत्तिकायां, राजाजा-राजशासन राज्ञस्त्रिभुवनाधिपस्य वीतरागस्यादेशो विद्यते । अतो बहिःकृतिर्गच्छावहिःकरणं, अस्यां को विचारो ? विचारो न कर्तव्य इत्यर्थः । कस्मादसन्दिग्धत्वात्सन्देहाभावात् भविचारितेनैव व्रतभ्रष्ठो व्रती गच्छाब्दहिः कर्तव्य एव । जनैरपि मतगोमहिष्यादि पतितमृत्तिके ति कृत्वा राजाज्ञया-. राजनिग्रहभयेन विचाराकसव्यतयव स्वगृहादहिः करणीयमिति दिगम्बरोक्तस्य गद्यस्य खण्डनया युक्तिमानर्थो लभ्यते ॥२॥
For Private And Personal Use Only