Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 137
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुतत्वप्रदीपे न विद्यादेवतार्चा चेतत्कि विद्याधरवरैः ? । कृताऽस्त्यऽविरतश्राद्ध-वात्सल्योत्थमषं च ते ॥२९॥ । व्याख्या-चेद्-यदि, विद्यादेवता-गौर्याद्याः षोडश । अपरेऽपि सम्यग्दृष्टयो देवास्तेषां अर्चा-पुष्पादिपूजा, न बुध्यते । ततः किं विद्याधरः-शतसहस्रलक्षसङख्यवरैस्सम्यग्दृष्टिभिः कृता? । न हि पुष्पजापादिविद्यासाधनोपचारं विना विद्याः सिध्यन्ति। अत एव सम्यग्दृष्टिश्रावकाणामपि ऐहिककार्यसिद्धिस्पृहया सम्यग्दृष्टिदेवत्तापूजनं समुचितं, तस्यास्तथाभवनेन तेषां प्राणिघातकारम्भाऽऽतिनिवृत्तेः, गृहस्थानामहिककार्यसिद्धिमन्तरेणाऽऽमुप्मिककार्यसिद्धेरप्यभावात् । यस्सूत्रे इहलोकाऽऽशंसानिषेधस्स परत्र धर्मफल. मनुष्यभवनाभिलाषनिषेधः प्रोक्तः । सम्यग्दृष्टिदेवतापूजानिषेधे श्रावकाणां स्वकार्यसिद्धेरभवनेनापि तव पातकं स्यात् । तथा अविरतत्वात्तेषां देवानां त्वया पूजा निषिध्यते, अतोऽविरताः श्राद्धाः-श्रावकाः श्रेणिकादयस्तेषां यदवात्सल्यं-वात्सल्याकरणं, तदुत्थं-तत्समुत्पन्न, अघ-पातकं तवाऽस्ति-विद्यते, किमुक्तं भवतिश्रेणिककृष्णादिसार्मिकाणां पुष्पमालाप्रक्षेपादिवात्सल्यनिषेधे यत्पातकं स्यात्तत्तवाप्याढौकितं । ऐहिककार्यसिद्धिस्पृहामन्तरेणापि शासनप्रभावकगुणादेव भगवतोऽनन्तगुणस्य पूजाया हीनतरपूजया सम्यग्दृष्टिदेवतानां पूज्यमानत्वादिस्थमाशयभेदेन तत्पूजनस्यापि साधर्मिकवात्सल्यवन्मुक्तिफलत्वात् ॥२९॥ अशुद्धा न तथा प्रोक्ता, तेषामविरतिर्यतः । रक्षाशक्त्याऽधिकत्वं च, ततो युक्तेयमाचिती ॥३०॥ इति गुरुतत्त्वप्रदीपे उत्सूत्रकन्दकुद्दालापरपर्याये आगमिकनिरासो नाम सप्तमविश्रामः ॥७॥ ___ इति गुरुतत्त्वप्रदीपे उत्सूत्रकन्दकुद्दालापरपर्याये सप्तमविश्रामस्य विवरणं ॥७॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170