Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
भवति - आगमो हि द्विविध:- सूत्ररूपोऽर्थरूपश्च । अस्यां गाथायां सूत्राऽऽगमकारिण एव प्रोक्ताः । अर्थाऽऽगमकारिणा हि सङ्घलीर्थकरी प्रायः । अतोऽस्यां गाथायामनुक्तत्वेऽपि तत्कृतस्यान्यस्यापि सूत्रत्व सिद्धेरसी तुर्योत्सर्ग स्त्रिपदीवद् बन्धरूपत्वेन सूत्रतया सिद्ध इति ॥२३॥ इयं ते त्रिस्तुतिव्यक्ति - राजगामाऽऽगमात्कुत: ? । त्वद्गुरुः प्राग् व्रतं भङ्क्त्वा, जग्राहोत्थापनां कुतः ? ||२४|| व्याख्या - अहो त्रिस्तुतिक ! भवान् अक्षरमात्ररुचिविद्यते । तत इयं त्रिस्तुतिव्यक्तिस्ते तव, कुतः कस्मात् आगमादाजगाम ? स्तुतित्रयस्य सामान्यमात्रं भवत्सम्मते आगमे तिष्ठति । यदाहनिस्सकडमनिस्सकडे वा चेईए सन्वहि थुई तिनि । बेलं व चेइयाणि # नाउं इक्किक्किया वावि ॥ १॥ तिनि बा कडढ़ई जाव ईओ तिसिलोईया | ताब तत्थं अणुन्नायं कारणेण परेण वि || २ || शेषा व्यक्तिः यथा त्वया विधीयमानास्ते, तथा कस्मिनागमे तिष्ठतीति विचार्यमास्ते । ईर्यापथिव्यामप्रतिक्रान्तायां न युक्तं ' सामायिकादानं । उक्तं च महानिशीथे - " गोअमा ! णं अडिक्कताए इरियावहियाए न कप्पइ किचिवि चिइवंदणसज्ज्ञायाइयं काउं" मूलावश्यकेप्युक्तं "इरियावहिया पडिक्कमिज्जइ, तओ चेइआई वंदिज्जंति" । चैत्यवन्दनाभणनेन समतापरिणामं विना श्रद्धादीनामनुत्पादेन, स्वाध्यायभणनेन पञ्चपरमेष्ठिरूपस्वाध्याय संयुक्तत्वेनादिशब्दभणनेन तज्जातीयत्वेन सामायिकस्य लब्धत्वात् । तथा शक्रस्तवस्यैकस्याः कस्याश्चिद्वाचनाया अनङ्गीकारे आममोल्लङ्घनं "जेअ अईआ सिद्धा" इत्याद्यऽपठतस्सधोल्लङ्घनं च तवाढौकितम् । इत्थं विचार्यमाणं " अरिहंतचे ईआणं" इत्याद्यपि सर्व्वं विशीर्यते । यक्तियक्तामाचार्यपरम्परां वयमपि
I
For Private And Personal Use Only
१२४

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170