Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 132
________________ Shri Mahavir Jain Aradhana Kendra सप्तमो विश्रामः www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२३ परस्परं, अन्तरं भगवता न प्रोक्तं । क्व ?, 'तीर्थं भदन्ते' स्यादौसूत्रे । यदाह - 'तित्यं भंते! तित्थं तित्थकरे तित्थं ? । गोयमा ! अरहा ताव नियमा तित्थकरे, तित्यं पुण चाउवण्णो समणसंघो पढमगणहरो बा' । [ भगवती ] ततस्सिद्धं “ वेयावच्चगराणं संतिगराणं सम्मछिट्टिसमाहिकराण" इति चतुर्णां पदानां सङ्घकृतत्वेन सूत्रत्वम् । प्रभुश्री हरिभद्रसूरिपादैर्ललितविस्तरायामेतेषां चतुर्णां पदानां व्याख्यानस्य पुरत ' इति वृद्धसम्प्रदाय' इत्युक्ताक्षराणामनुसारेण पञ्चाशकवृत्तौ चतुर्थी स्तुतिः किल अर्वाचीना' इति नवाङ्गवृत्तिकारोक्तानुसारेण च मयात्रेत्युक्तम् । यतो बाध्यबाधकयोर्बाधको विधिर्बलवान् । अत्र सिद्धान्तस्याक्षरमात्रमेव बाध्यः, वृद्ध सम्प्रदायो बाधकः, प्रमाणत्वेन महात्मनामनुल्लङ्घनीयत्वात्, वृद्धसम्प्रदायरूपतुर्योत्सर्गस्यास्य चतुर्णां पदानां नूतनकर्तव्ये अथवा पुरा सन्तिष्ठमानानामेव स्तुतित्रयेण समं संयोजने वृद्धसम्प्रदायत्वघटनात् । सिद्धमत्रानृल्लङघनीयत्वमिति ||२२|| " तथास्वभावतस्सङघ - तीर्थकृत्कृतमागमः । 1 'सूत्रं गणधरे' त्याबौ, नातः प्रायोऽर्थतः स यत् ॥२३॥ व्याख्या- 'सङ्घतीर्थ कृत्कृत' सङ्घेन तीर्थकृता च यत्किञ्चिस्कृतं स आगामोभण्यते कस्मात् ?, तथा स्वभावतः सङ्घतीर्थकृतोर्जल्पनस्य यथावस्थितस्वरूपत्वेनानुत्सूत्र तयाऽऽगमभवनभावात् -सूत्र गणधरेत्यादौ "सुत्तं गणहरइयं तहेव पत्तेयबुद्धरइयं च । सुयकेवलिणा रइयं अभिनदसपूव्विणा रइयं ॥१॥ अस्मिन् सूत्रे यथा - तित्थगररइयं सुतं इति नोक्तं, तथा सङघरइयं सुतं इत्यपि नोक्तं । अतोऽस्मात्कारणात्, यद्यस्मात्कारणात् प्रायो- बाहुल्येन, 'सतीर्थकृत्कृत आगमोऽर्थस्वरूपो भवति । "अत्थं भासइ अरिहा" इति वचनात् " बहुमणुमयमेयमायरिय" मिति वचनाच्च । किमुक्तं 2 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170