Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
व्याख्या-सूत्र-सिद्धान्ते, श्राद्धे-श्रावके वेषो न स्यात् तु पुनस्साम्यं तिष्ठति 'अतो मुखवस्त्रिका त्यक्ता इति चेत् ततस्सामायिक तं वेषं विना न भवेत् । यदि सूत्रे श्रावकस्य सामायिकं तिष्ठति ततो वेषोपि तिष्ठतीति भावः । कुतः ? शिक्षाव्रतत्वात्-शिक्षाव्रतानामन्तर्गतत्वेन शिक्षाव्रतनाम्नैव सिद्धं सवेषत्वं । हियस्मात् कारणात्, शिक्षा-शिक्षणमभ्यासो भण्यते । सा च यतिस्थद्रव्यभावयोर्यति सम्बन्धिनो द्रवस्य भावस्य च परिज्ञेयेत्यर्थः । द्रव्यं वेषधारित्वं, भावस्समतापरिणामः । अर्वाचीनावस्थेन श्रावकेनोभयमपि शिक्षणीयं पराचीनावस्थायां यतिरूपायामुभयेनापि कार्यत्वादिति सिद्धं सवेषत्वं सामायिकस्य ॥१०॥
शिक्षाक्तत्वेन सामायिकतदुपलक्षितपोषधयोरिव देशावकाशिकातिथिसंविभागयोः किं न मुखवस्त्रिकेति परोक्तस्य -समाधानं सूत्रान्तरेण मुखवस्त्रिकारजोहरणे च स्थापयन्नाह
द्रव्यं प्राधान्यतस्साम्य एवाल्पं शिक्षणं च यत् । रूप्पमाथुक्तितो द्रव्य-भावाभ्यां श्रमणेषु यत् ॥११॥ तसस्योपमया श्राद्ध, लिङगेद्वे देशतो यतः।
श्रामण्यं सर्वतो द्रव्यस्याभाबाबुपमापि न ॥१२॥ युग्मम् व्याख्या-श्रावकस्य साम्ये एव सति, न देशावकाशिका. तिथिसंविभागयोस्सतोद्रव्यं मुखवस्त्रिकारजोहरणे अतःकारमादागमे प्रोक्ते कारणमाह-प्राधान्यतः-सामायिकस्य प्रधानत्वात् । मुख्यानुष्ठाने हि परिनिष्ठिताभ्यासस्यानुलग्नसकलानुष्ठाने सुखेन सात्म्यभावात् स्थविरकल्पिजिनकल्पसम्बन्धिनस्सकलानुष्ठानस्य सर्वदैव ताभ्यां कार्यत्वात् । क्षणमप्येतयोरग्रहणे प्रायश्चित्ताऽऽगमनात् । द्वितीयं कारणमाह-तथा यत्-यस्मात्कारणात् शिक्षणमल्पं
For Private And Personal Use Only

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170