Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्वप्रदीपे
१०४
WAKAM
व्याख्या-यद्यस्मात्कारणात् तत्प्रतिक्रमणसूत्रं श्रुते-सिद्धान्ते न दृश्यते । अतः पाश्चात्यं-पश्चाद्भवमिति चेत् । तत एतदेव वंदित्तु सम्वसिद्धे' इत्यादिरूपमेव प्रतिक्रमणसूत्र सिद्धान्तस्सम्भवेत्-घटेत, नान्यसिद्धान्तोक्तं 'कुतः ? इत्याह-षडविधान्तःस्थनामत्वात् । षडविघं यदावश्यक-सामाइयं च उविसत्थओ वंदणयं पडिक्कमणं काउस्सग्गो पच्चक्खाणमितिरूपं, तस्यान्तमध्ये स्थितं यन्नाम प्रतिक्रमणमिति तस्य भावस्तस्मात् । किमुक्तं भवति-पङविधस्य मध्ये प्रतिक्रमणमुक्तं । ततः केनचित प्रतिक्रमणसूत्रेण भवितव्यमेव । अस्य तु प्रतिक्रमणसूत्रमिति नाम ततस्तथा 'पडिक्कमणेणं भंते ! जीवे किं जणयइ ? पडिक्कमणेणं वयछिद्दाइ पिहेइ' इतिवचनात् । आलापकस्यास्य प्रतिक्रमणसूत्रस्यैवापेक्षत्वेनास्य व्रतच्छिद्रपिधानरूपत्वेन सिद्धान्तत्वसिद्धिः। यतिपाक्षिक सूत्रवत् । यथा यतिसम्बन्धि पाक्षिकसूत्रं पृथक् सूत्रे अदृश्यमानमपि सूत्रतया सिद्धं भवद्भिरभ्युपगतं तच्च । एतदपि प्रतिक्रमणसूत्रं सूत्रतया सिद्धयति॥२०॥
पाश्चात्यमित्यस्यादृष्टे-जन्नमित्यादिसूत्रतः ।
अनन्तगुणहानेश्च, श्राद्धे पश्चान्नवाखिलम् ॥२१॥ व्याख्या-पाश्चात्यस्याप्याचीर्णत्वेन सिद्धान्तत्वात्पुनः पाश्चात्यमेतदिति-अमुना प्रकारेणास्य प्रतिक्रमणस्य कस्मिंश्चित् शास्त्रेड दृष्ट रदर्शनात् । 'जन्न'मित्यादिसूत्रतः जणं इमं समणो वा समणी वा सावओ वा साविया वा तच्चित्ते तम्मणे तल्लेसे तयज्झवसिए तदज्झवसाणे तदट्टोवउत्ते तदप्पियकरणे तब्भावणाभाविए अन्नत्य य कत्थय मणं अकरेमाणे उभओकालं आवस्सयं करेइ ।
(अनुयोगद्वारसूत्रम् ) 'एतद्वृत्तिः-तपितकरणः' करणानितत्साधकतमानि देहरजोहरणमुखवस्त्रिकादीनि । तस्मिन्नावश्यके
For Private And Personal Use Only

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170