SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुतत्वप्रदीपे १०४ WAKAM व्याख्या-यद्यस्मात्कारणात् तत्प्रतिक्रमणसूत्रं श्रुते-सिद्धान्ते न दृश्यते । अतः पाश्चात्यं-पश्चाद्भवमिति चेत् । तत एतदेव वंदित्तु सम्वसिद्धे' इत्यादिरूपमेव प्रतिक्रमणसूत्र सिद्धान्तस्सम्भवेत्-घटेत, नान्यसिद्धान्तोक्तं 'कुतः ? इत्याह-षडविधान्तःस्थनामत्वात् । षडविघं यदावश्यक-सामाइयं च उविसत्थओ वंदणयं पडिक्कमणं काउस्सग्गो पच्चक्खाणमितिरूपं, तस्यान्तमध्ये स्थितं यन्नाम प्रतिक्रमणमिति तस्य भावस्तस्मात् । किमुक्तं भवति-पङविधस्य मध्ये प्रतिक्रमणमुक्तं । ततः केनचित प्रतिक्रमणसूत्रेण भवितव्यमेव । अस्य तु प्रतिक्रमणसूत्रमिति नाम ततस्तथा 'पडिक्कमणेणं भंते ! जीवे किं जणयइ ? पडिक्कमणेणं वयछिद्दाइ पिहेइ' इतिवचनात् । आलापकस्यास्य प्रतिक्रमणसूत्रस्यैवापेक्षत्वेनास्य व्रतच्छिद्रपिधानरूपत्वेन सिद्धान्तत्वसिद्धिः। यतिपाक्षिक सूत्रवत् । यथा यतिसम्बन्धि पाक्षिकसूत्रं पृथक् सूत्रे अदृश्यमानमपि सूत्रतया सिद्धं भवद्भिरभ्युपगतं तच्च । एतदपि प्रतिक्रमणसूत्रं सूत्रतया सिद्धयति॥२०॥ पाश्चात्यमित्यस्यादृष्टे-जन्नमित्यादिसूत्रतः । अनन्तगुणहानेश्च, श्राद्धे पश्चान्नवाखिलम् ॥२१॥ व्याख्या-पाश्चात्यस्याप्याचीर्णत्वेन सिद्धान्तत्वात्पुनः पाश्चात्यमेतदिति-अमुना प्रकारेणास्य प्रतिक्रमणस्य कस्मिंश्चित् शास्त्रेड दृष्ट रदर्शनात् । 'जन्न'मित्यादिसूत्रतः जणं इमं समणो वा समणी वा सावओ वा साविया वा तच्चित्ते तम्मणे तल्लेसे तयज्झवसिए तदज्झवसाणे तदट्टोवउत्ते तदप्पियकरणे तब्भावणाभाविए अन्नत्य य कत्थय मणं अकरेमाणे उभओकालं आवस्सयं करेइ । (अनुयोगद्वारसूत्रम् ) 'एतद्वृत्तिः-तपितकरणः' करणानितत्साधकतमानि देहरजोहरणमुखवस्त्रिकादीनि । तस्मिन्नावश्यके For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy