________________
Shri Mahavir Jain Aradhana Kendra
षष्ठो विश्रामः
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत् कुलालोऽकरोच्चेत्त - दिति कुत्र भुते श्रुतम् ? । अथवा केवली चेत् स, ततोप्यभिमतो न ते ॥ १८॥ व्याख्या - तत्प्रतिक्रमणं कुलाल:- कुम्भकारोऽकरोत्, इति चेत्तत इति कुम्भकारेण कृतं प्रतिक्रमणं इदं कुत्र - कस्मिन् श्रुतेसिद्धान्ते त्वया श्रुतं ? न क्वचिदित्यर्थः । अहं श्रुतोक्तमेव ब्रुवे इति तवाभिमतो ( मानो) पि प्रतिक्रमणमत्सरेण कथं कुत्रापि प्रोषितः । अथवा चेद्यदि स कुम्भकारः केवली - केवलज्ञानी स्यात् । ततोपि ते तव नाभिमतो - नाभीष्ट: । एतावता केवलज्ञा निकुम्भकारकृतमपि न मन्यसे इत्यर्थः ॥ १८ ॥
१०३
मूर्खेण केनचिदिदं प्रतिक्रमणं कृतमिति परोक्तमुत्थापयन्नाहप्रायश्चित्तमिवं यत्तन् न स्यावूनमथाधिकम् । नाभूतभवनं चास्य, तत्कुतः कृत्रिमाकृतिः ? ॥१९॥
1
व्याख्या- यद्यस्मात् कारणात् इदं प्रतिक्रमणं प्रायश्चितं विद्यते श्रावका तिचारसंशोधनरूपत्वात् । ततो न इदमूनमधिकं वा स्यात् । अस्य न अभूतभवनं । अभूतस्याविद्यमानस्य भवनंविद्यमानत्वम् । इदं प्रतिक्रमणरूपं प्रायश्चित्तं पुरा नाभूत् पश्चादभूदिति नेत्यर्थः । पापस्य वर्द्धमानप्रायश्चित्तस्य सर्वदा भवनात् । ततस्तस्मात्कारणात् कुतः पक्षादस्य प्रतिक्रमणस्य कृत्रिमाकृतिः ? मूर्खस्य कस्यचित्कृतत्वेन कृत्रिमा आकृतिराकारो यस्याः सा कृत्रिमाकृतिः । आगमोक्तत्वादस्य प्रतिक्रमणसूत्रं अपरानुष्ठानं च प्रतिक्रमणनाम्ना विवक्षितम् । ततो यन्नाम यत्र सम्भवति । तत्र तद्वक्तव्यमित्यत्र प्रतिक्रमण सूत्रमधिकृत्याह
तत्पाश्चात्यं श्रुते यश, संभवेदेतदेव तत् । षडविधांतस्थनामत्था - द्यतिपाक्षिकसूत्रवत् ॥२०॥
For Private And Personal Use Only