________________
Shri Mahavir Jain Aradhana Kendra
षष्ठो विश्रामः
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१०५
यथास्थान- न्यस्तोपकरण इत्यर्थः । तथाऽनन्तगुणहाने रनन्तगुणहानिः पाश्चात्यश्रावकाणां भवद्भिरप्यनुमता, पाश्चात्यानां प्रमादपरवशतया नूतन विशिष्टानुष्ठानकरणासम्भवात् । अनन्तगुणवृद्धपुरातनपुरुष कृतानुष्ठाने बहुमानतः पाश्चात्यानामपि करणोद्यमत्वसिद्धौ ततो विशिष्टानुष्ठानरूपस्यास्माकीनश्राद्धप्रतिक्रमणस्य सर्वदैव भवनसम्भव: यथा विधीयमानमखिलं - समग्रमपि प्रतिक्रमणानुष्ठानं न पश्चात् । श्रुतदैवतक्षेत्र देवतकायोत्सर्गादेराचीर्णत्वात् । शेषं पुरातनमिति ॥ २१ ॥
सारम्भाणां निरारम्भा -ऽऽलोचनालोचनीकृता । तद्विश्वस्ताऽनुलग्ना - कृपा कि ते गता बत ? ॥२२॥
V
व्याख्या - अहो आञ्चलिक ! यत् त्वया सारम्भाणां श्रावकाणां निरारम्भा - निरवद्या आलोचना - उभयकालप्रतिक्रमणरूपा आलोचनीकृता-चक्षुर्गोचरीकृता । ततस्ते तव किं कथं बतेति खेदे, विश्वस्ता- विश्वासमुपगता, अनुलग्ना :- पृष्ठलग्ना आर्त्ता:संसारदुःखपीडिता ये श्रावकास्तेषु या कृपा-दया साऽपि विध्वस्ता ||२२||
राजते राज्ञि चाऽज्ञेऽपि, यदाऽऽरात्रिकमत्र किं । लोकालोकविलोकेऽस्मिन्, प्रभावाऽऽभाति नोत्प्रभम् ॥२३॥
,
व्याख्या - अज्ञेऽपि मूर्खोऽपि राज्ञि नृपे यत् आरात्रिकं । अत्रास्यां पृथिव्यां राजते - शोभते । ततोऽस्मिन् प्रभो - वीतरागे उत्प्रभमर्ध्वप्रभमारात्रिकं किं नाऽऽभाति ? । अपित्वाभात्येव । किं विशिष्टे प्रभो ? लोकालोकविलोके । लोकश्च अलोकश्च लोकाऽ लोकौ तयोर्विलोको - दर्शनं यस्य तस्मिन् ॥ २३ ॥ अथवा....
For Private And Personal Use Only