________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
अज्ञानिभ्यो हीनैव स्यात् । ततस्तस्याः क्षुधाया अभाव : केवलेकेवलज्ञाने बलात् संपद्यते घटते । किमुक्तं भवति केवलज्ञानांशत्वान्मतिज्ञानादीनां केवलज्ञाने क्षुधाया अभावे मतिज्ञानादीना - मपि अंशतः क्षुधाया हीनत्वप्राप्ते र्न चैतदस्ति । केषाञ्चिन्मति - श्रुतज्ञानिनां अज्ञानिभ्योऽधिकतराहारग्रहणदर्शनात् । ततः सिद्धा केवलिनो भुक्तिरिति ॥ ३० ॥
कार्यं तिष्ठेदभिगृह्य, त्रिधोपादानकारणम् । तरौ नीरमिवाङ्गेऽन्न - मचिरस्थायि कारणम् ||३१|| व्याख्या - उपादानकारणं नाम परिणामिकारणं, तत् त्रिधा - अचिरस्थायि - चिरस्थायि - सदास्थायिभेदेन त्रिविधं सत् कार्यं अभिगृह्य अभिव्याप्य तिष्ठेत् । यत्र कार्यं तत्र स्वस्मिन् स्वस्मिन् कार्ये त्रिविधस्योपादानकारणस्यावश्यं भवनात् । तदभावे कार्यस्याप्यभावात् । उपादानकारणस्याद्यं भेदमाह-अङगे- शरीरेऽन्नं अचिरस्थायिकारणं भण्यते । किमिव ? तरौ नीरमिव । अत्र यद्यपि अन्नं जलं च सहकारिकारणं, पुनस्तथापि अत्यन्तविशेषकर्तृत्वेन उपादानरूपत्वादुपादानत्वेनैव विवक्षितम् । यथा परिणामिकारणं जलापगमतः कार्यभूतस्य द्रुमस्यापगमः स्यात्, परिणामिकारणाहारापगमतः कार्यभूतस्य देहस्याप्यपगमः स्यादित्यर्थः । अतो देहभृतः केवलिनो भुक्तिरेवेति भावः ॥३१॥
तथा
-
३८
मृत्पिण्डाद्यं घटादौ यत्, तच्चिरस्थायि कारणम् । आत्मादिकं यद् ज्ञानादौ, तत् सवास्थायि कारणम् ॥३२॥ व्याख्या - मृत्पिण्डो घटे कारणं परिणामिकारणं । किंविशिष्टम् ? चिरस्थायि, चिरकालेन पर्यायान्तरभवनात् । आदिशब्दाद्दादि प्रतिमादि गृह्यते । यथा दारु परिणामिकारणं, तत्कार्यं
For Private And Personal Use Only