________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो विश्रामः
mmmmmmmmmmmmwwwwwwwwwwwwwwwwer दिस्वरूपैक्यात् - स्त्रीपुरुषयोर्जीवत्वभव्यत्वादिस्वभावानामेकरूपत्वात् । यदुक्तं यापनीयतन्त्रे-'नो खलु इत्थी अजीवे' इत्यादि ललितविस्तरातः परिज्ञेयम् ॥२७॥
सप्तम्यूळगतेश्चेन्न, तदेवं तीर्थकृत्यपि । बलदेवा महात्मानस्तथा मुक्ति व्रजन्ति किम् ? ॥२८॥ व्याख्या-सप्तम्युयंगतेः-सप्तमनरकपृथिव्यामगमनादुत्कृष्टरौद्रध्यानाभावात् शुक्लध्यानाऽभवनेन न स्त्रीणां मुक्तिरिति चेत् । ततस्तीर्थकृत्यपि-तीर्थकरेप्येवं न मुक्तिरित्यर्थः। पूर्वोक्ततद्धेतोरेव। उत्तरार्द्धं स्पष्टम् ॥२८॥
यथा जन्मादि वहप्यात्, परभॊक्तं सदाशिवे । त्वया स्त्रीत्वं तथा नाथे, जन्माचं किमुक्तं ततः? ॥२९॥
व्याख्या-परौकिकैम्मिथ्यादृष्टिभिस्सदाशिवे यथा वैरूप्यात्-विरूपप्रतिभासनात् । जन्मादि-जन्ममृत्युगर्भवासादि, नोक्तं । तथा त्वया नाथे-तीर्थकरे स्त्रीत्वं नोक्तम् । ततस्तीर्थकरे जन्माचं कि उक्तम् ? किमुक्तं भवति-पत्री निर्वाणनिषेधाभिनिवेशाभिप्रायवान् भवान् विरूपप्रतिभासनदूषणाकर्षणमिषात् तीर्थकरे स्त्रीत्वममन्वानो जन्ममरणादिकं विरूपप्रतिभासनसमानं कथ मन्यते ? । तथाविधकर्मणो विपाकात् जन्माद्यं इति चेत्, ततः स्त्रीत्वमप्यस्तु। ततः कर्मक्षयात् स्त्रिया निर्वाणं सिद्धमिति ॥२९।।
अथ केवलिभुक्ति स्थापयन्नाह
मतिज्ञानादिषु स्यान्चेत्, सधा होना कियत्यपि । ...... संपद्यते ततस्तस्या, अभावः केवले बलात् ॥३०॥ ... व्याख्या-चेद्-यदि, ' मतिज्ञानादिषु' मतिज्ञानि-श्रुतज्ञानिअवधिज्ञानि-मनःपर्यायज्ञानिषु, कियत्यपि-अल्पा घनतरा वा क्षुधा
For Private And Personal Use Only