________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
व्याख्या-हि-यस्मात् कारणात्, ते-तव लिङगे त्वगिव न वस्त्रं । त्वदीये हि यस्य लिङगे त्वग् न भवति, स लोकपापहेतुतया नग्नो न स्यात् । ततो यथा लिङगाऽऽवारिका त्वम् त्वयादृता, तथा वस्त्रं लिङगाऽऽवारकं किं नादृतम् ? । अतो लोकपापं तव दौकितं।
___ ननु जनेऽपि नग्नतापसनिरीक्षणेन आस्माकीननग्नत्वस्य लोकविरुद्धत्वाऽभवनतो लोकपापं न स्यात् । उच्यते-तापसवन्मया नग्नत्वमङ्गीकृतमिति प्रतिज्ञाया अपि च्युतो भवान् । यतस्तापसवत् तव भक्षं न । यथा तापसेन पञ्चग्रासिकाऽऽदृता, तथा न त्वयेत्यर्थः। गृहस्थगृहबहिःस्थस्यैव वृद्धस्त्रीकर्मकराद्यानीतभिक्षामाददानस्यास्य नग्नत्वदोषाल्पत्वात् । मठादौ स्त्रीवर्जनं । यथा तापसेन स्वकीये मठे देवगृहे च नग्नानां मध्ये स्त्रियस्समागच्छमाना निषिद्धास्तथा न त्वया । 'वस्त्रं च गृहिभोजने' यथा गृहस्थानां गृहे भुञानेन तापसेन वस्त्रपरिधानमादत, तथा न त्वया । ततस्तव लोकपातकमनिवारमेवेति ।।२६।।
तापसापेक्षया जैनो, लौकिकश्च पयो न ते । जीवत्वादिस्वरूपंक्यान्, मुक्तिः स्त्रीमा नृणामिव ॥२७॥
व्याख्या-ते-तव, तापसापेक्षया न जैनः पथो-मार्गः । वीतरागस्य भगवतस्तापसमाग्र्गाननुमन्तृत्वात् । तापसस्याप्यन्यतरमिथ्यात्वपापवन्नग्नत्वमिथ्यात्वपापभवनात् । न च तव लौकिक: पथो। भैक्षाद्यनङगीकारात् । इत्थमुभयभ्रष्टस्य तव लोकपातकानुलग्नधावनवत्त्वतो लघुकर्मणां स्त्रीणां मुक्तिरनुलग्नव धावति। तथा स्त्रीणां मुक्तिरस्ति । केषामिव ? नृणामिव-पुरुषाणामिव, यथा पुरुषाणां मुक्तिः, तथा स्त्रीणामपीत्यर्थः। कस्मात् ? जीवत्वा
For Private And Personal Use Only