________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
भैषज्यगुरुसूत्रम् पुनरपरं मंजुश्रीः सन्ति सत्त्वा ये तथागतानुद्दिश्य' शिक्षापदानि धारयन्ति ते शीलविपत्तिमापद्यन्ते दृष्टिविपत्तिमाचारविपत्तिं वा कदाचिदापद्यन्ते। शीलविपन्ना ये' पुन: शीलवन्तो भवन्ति' शीलं रक्षन्ति न पुनर्बहुश्रुतं पर्येष्यन्ति" न च तथागतभाषितानां सूत्रान्तानां गंभीरमर्थमाजानन्ति । ये च° पुनबहुश्रुतास्ते' अधिमानिका भविष्यन्ति मानस्तब्धाः परेषामीpपरायणाः सद्धर्मम् 'अवामन्यन्ते प्रतिक्षिपन्ति। मारपक्षिकास्ते तादृशा मोहपुरुषाः वयं कुमार्गप्रतिपन्ना अन्यानि चानेकानि सत्त्वकोटिनियुतशतसहस्राणि महाप्रपाते प्रपातयन्ति । तेषामेवंरूपाणां सत्त्वानां भूयिष्ठेन' नरकवासगतिर्भविष्यति । तत्र यैस्तस्य" भगवतो भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य नामधेयं श्रुतं भविष्यति तेषां तत्र नरके स्थितानां बुद्धानुभावेन तस्य
1 C तथागतानामुद्दिश्य
2 C पदं धारयन्ति शील विपन्ना० 3 There is no corresponding Tib. passage for आचारविपत्तिं वा कदाचिद् 4 C ते शीलविपन्ना आचारविपन्ना दृष्टिविपन्ना ये 5 A puts ते for भवन्ति 6 ( न बहुश्रुत्य A पर्येषिष्यन्ति 8 C तथागतानां 9 B जानाति 10 B & C ये च बहु. 11 B श्रुतस्ते 12 B मानिका 13 C स्तब्धाः सर्वेषां द्विष्टाः सद्धर्म ; Tib. मालकारमा मामा मागेर है ।
14 B सधर्म मन्याति 15 A & C महाप्रपातं प्रपा० : B महाप्रणिधानं () प्रपातं प्रपतन्ति । Evidently this is a mistake of the scribe. Tib : मामा ' कEिT से मा 16 A & B यत्तेषामेवरू०
_17_A & C भूयिष्ठतरं ; 'Tib. RE55=असहनीयं 18 C नरकगतिभ० 19 B यस्तस्य ; C यैः श्रुतं भविष्यति तस्य 20 B स
For Private and Personal Use Only