Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
अजितसेनव्याकरणम् न चायं घातितो यक्षैर्न भूतैर्न च राक्षसः। बोधिसत्त्वोऽप्ययं लोके जरव्याधिप्रमोचकः॥ दक्षिणीयो अयं लोके जरव्याधिप्रमोचकः। दुर्लभो दर्शनं अस्य बोधिमार्गस्य दर्शकः॥ कल्याणमित्रमयं आसी तव कारणमागतम् । दक्षिणीयो अयं लोके सर्वसत्त्वसुखावहम् ॥ सर्वज्ञं पारमिप्राप्तं लोकनाथन प्रेषितम् । दृढवीर्यं दृढस्थामं लोकनाथं महर्षिणम् ॥ यो नाम तस्य धारेति नासौ गच्छति दुर्गतिम् ।
अपायं न गमिष्यन्ति वर्गलोकोपपत्तये ॥ अथ स राजकुमारस्तं पितरं गाथा भाषित्वा तूष्णी स्थितोऽभूत् । अथ राजा अजितसेनः स्वकं पुत्रमेवमाह । कथं त्वं कुमार जानीषे यदयं भिक्षुः समाधि समापन्नोऽभूत्। अथ स राजकुमार एवमाह । पश्य' महाराज अयं भिक्षुर्बोधिसत्त्व-. समाधि समापन्नः सर्वक्लेशविनिर्मुक्तो भवसागरपारंगतः सर्वसत्त्वहितार्थं च मार्ग दर्शयते शुभम् । अथ स राजकुमारो राजानमेवमाह। आगच्छ तात चक्रमं गमिष्यामः। अथ स राजा स च राजकुमारो बहुभिर्दारकशतैः सार्धं येन स चंक्रमस्तेनोपसंक्रान्तौ। अथ स भिक्षुस्ततः समाधेर्युत्थितो राजानमजितसेनमेवमाह। आगच्छ महाराज किं करोष्यस्मिन् स्थाने ।
1 Ms. पश्यथ 3 Ms. ०गता
2_Ms. इदं _4_Ms. करोहि इदं
For Private and Personal Use Only

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266