Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu

View full book text
Previous | Next

Page 254
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अजितसेनव्याकरणम् १३५ प्रकाशितं सूत्रमिदं निरुत्तरं मा पश्चकाले परिनिर्वते जिने। धारिष्ये मं सूत्रनयं निरुत्तरं । अथायुष्मान् शारद्वतीपुत्रो भगवन्तं गाथाभिरध्यभाषत । नमोऽस्तु ते बुद्ध महानुभाव प्रकाशितं सूत्रमिदं निरुत्तरम् । परिनिर्वृ तस्य तव लोकनायका लिखिष्यति सूत्रमेतं निरुत्तरम् ॥ न चापि सो गच्छति दुर्गतीभयं स्वर्गं च सो गच्छति क्षिप्रमेतत् ॥ अथायुष्मान पूर्णो मैत्रायणीपुत्रो भगवन्तं गाथाभिरध्यभाषत । कृतज्ञो बहुसत्त्वानां मोचको दुर्गतीभयात् । प्रकाशितं त्वया सूत्रं गम्भीरं बुद्धदक्षिणम् ॥ अहं हि पश्चिमे काले निवृते त्वयि नायके । इदं सूत्रं प्रकाशिष्ये हिताय सर्वप्राणिनाम् ॥ इति। । अथ ब्रह्मा' सहांपतिर्भगवन्तं गाथाभिरध्यभाषत । नमोऽस्तु ते बुद्ध महानुभावा प्रकाशितं सूत्रमिदं त्वया शुभम् । 1 Ms. ब्रह्म। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266