Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४
अजितसेनव्याकरणम् तिसाहस्रमहासाहस्रयां' लोकधातौ सत्त्वानामक्षीण्युत्पाटयेत् अयं ततो बहुतरमपुण्यस्कन्धो भवेत्। एवमेव य एतेषां सूत्र. धारकाणां धर्मभाणकानां दुष्टचित्तप्रेक्षिता अयं ततो बहुतरमपुण्यस्कन्धं प्रसविष्यते । अथ आनन्दो भगवतो गाथाः प्रत्यभाषत ।
बहुसूत्रसहस्राणि श्रुतं मे शास्तुसंमुखात् । न [च] मे ईदृशं सूत्रं श्रुतपूर्वं कदाचन ॥ परिनिर्वृतस्य शास्तुस्य पश्चात्काले सुभैरवे । इदं सूत्रं प्रकाशिष्ये धारयिष्ये इमं नयम् ॥ यत्र सूत्ररत्ने अस्मिं पश्चात्का/ले] भविष्यति । रक्षा करिष्यामि तेषां पश्चात्काले सुभैरवे ॥
प्रतिक्षिपिष्यामि नेदं गंभीरं बुद्धभाषितम् ॥ अथायुष्मानानन्दो भगवतो गाथा भाषित्वा तूष्णीं स्थितोऽभूत् । अथ काश्यपो महाश्रावको भगवन्तं गाथाभिरध्यभाषत ।
सुवर्णवर्णं वरलक्षणांगं
द्वात्रिंशता लक्षणधारिणं जिनम्' । सुभाषितं सूत्र महानुभावगं
गंभीरधर्म निपुणं सुदुदृशम् ॥
3 Ms. ०ध्यति
1 Ms. तृसाहस्र० 4 Ms. नानन्दो 6 Ms. द्वातृशता
2 Ms. इमेषां 5_Ms. स्थितमभूत् । 7 Ms. जीनं ।
For Private and Personal Use Only

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266