Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu

View full book text
Previous | Next

Page 247
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२८ अजितसेनव्याकरणम् बहूनि कल्पानि अचिन्तियानि जातीशताकोटि अचिन्तियानि । न मे कदाचिदिह दृष्टरूपं त्वं लोकनाथो वरदक्षिणीयो॥ त्वं सार्थवाह जरव्याधिमोचकं सुवर्णवणं वरलक्षणांगम्। द्वातृशता लक्षणधारिणं मुने नासौ कदाचिद्वजते अपायभूमिम् । यो लोकनाथस्य हि रूपु पश्ये - त्वं लोकनाथा शिरसा नमस्यामी ॥ अथ राजा अजितसेनः कृताञ्जलिः' भगवन्तमेवमाह' । अहं भगवन् तव शासने प्रव्रजिष्यामि। अथ भगवान् तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः । अलब्धलाभा ये तत्र मम शासनं वैस्तारिकं भवति। तं राजानमजितसेनमेवमाह । गच्छ त्वं महाराज स्वगृहे सप्तमे दिवसे आगमिष्यामि । अथ राजा अजितसेनस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातस्तं कल्याणमित्रं भिक्षु पुरतःस्थाप्य स्वगृहं गत्वा सर्वानमात्यानामन्त्रयते' स्म। सर्वैामनगरनिगमजनपदैः पथं शोधयितव्यं' गृहे गृहे ध्वजान्युच्छ्रापितव्यानि गृहे गृहे रत्नमयानि 1 Ms. कृताञ्जलयः 2 Ms. भगवतैवमाह 3 Ms. वैस्तारिकी 4 Ms. जातो तं 5 Ms. सर्वेषाममात्यानामामन्त्रयते 6 Ms. qer in the masculine is found in the Mahābhārata. 7 Ms. शोधापयितव्यं 8...8 Ms. ध्वज यतव्या For Private and Personal Use Only

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266