Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२७
अजितसेनव्याकरणम् श्रवणाय । अथामात्यकोट्यस्तं' राजानमजितसेनमेवमाहुः । कृत. मस्माभिः महाराज हस्तिरथमश्वरथं सज्जम् । अथ राजा अजितसेनो हस्तिरथे अवरुह्य तं च नन्दिमित्रमहाश्रावकं रत्नमये रथे अवरोह्य येन जेतवनं "विहारस्तेनोपसंक्रान्तः। अथ भगवान् राजानमजितसेनं दूरत एवागच्छन्तं दृष्टा तान् सर्वश्रावकानामन्त्रयत'। सर्वैर्नानाऋद्धिविकुर्वितं दर्शयितव्यम् । अथ ते सर्वे महाश्रावका ज्वालामालं नाम बोधिसत्त्वसमाधि समापन्ना अभूवन् । अथ राजा दूरतस्तं ज्वालामालं दृष्ट्रा नन्दिमित्रमहाश्रावकमेवमाह । कस्यार्थे इमं पर्वतं ज्वालामालीभूतं पश्यामि । नन्दिमित्र आह। अत्र शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धः स्थितिं ध्रियते यापयति धर्म च देशयति । ते च बोधिसत्त्वा ज्वालामालं नाम बोधिसत्त्वसमाधि समापन्नाः। अथ राजा अजितसेनो हस्तिरथादवतीर्य पादाभ्यां पुत्रसहस्रण साधू येन भगवांस्तेनोपसंक्रान्तः। अथ भगवान् सुवर्णवर्णेन कायेन व्यामप्रभया चंक्रमते स्म। अथ राजा अजितसेनो भगवतो रूपवर्णलिंगसंस्थानं दृष्टा मूञ्छित्वा धरणितले निपतितः। अथ भगवान् सुवर्णवर्ण बाहु प्रसार्य तं राजानमुत्थापयति स्म। उत्तिष्ठ' महाराज कस्यार्थ प्रपतितः। राजा आह ।
1 Ms. ०कोट्यो तं 3 Ms. कृतास्माको 5 Ms. अवरुह्य 7 Ms. ०मन्त्रयतः 9 Ms. उत्थेहि
2 Ms. •माह 4 Ms. सद्य 6 Ms. विहारं तेनो. 8 Ms. व्यामप्रभाया
For Private and Personal Use Only

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266