Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu

View full book text
Previous | Next

Page 239
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अजितसेनव्याकरणम् ये तिर्यग्योनिगताः पक्षिणः शुकशारिकाचक्रवाकमयूरकोकिलादयस्ते नानारुतानि कुर्वन्ति स्म । अथ तवैव उद्यानभूमौ सुवर्णवर्णाः सुवर्णतुण्डाः' सुवर्णपक्षाः सुवर्णपादाः पक्षिणः प्रादुर्भूताः। ते सर्वे बुद्धशब्दं निश्वारयन्ति । अथ नन्दिमित्रमहाश्रावको येन राज्ञोऽजितसेनस्य राजधानी तेनोपसंक्रान्तः। अथ राजा अजित. सेनस्तं नन्दिमित्रं महाश्रावकमेवमाह । आगतस्त्वं महाश्रावक । दृष्टोद्यानभूमिः। नन्दिमित्र आह । दृष्टा मयोद्यानभूमी रमणीया सुशोभना। अथ नन्दिमित्रं महाश्रावकं राजा अजितसेनो गाथाभिरध्यभाषत। ये जम्बुद्वीपे परिभोगमासी अधिमुक्तकचम्पकधानुष्कारिका । अशोकमुचिलिन्द तथैव पाटला सौगन्धिकाश्च सुमना च वार्षिका ॥ तदा पारियात्रा नदीतीरनिर्मिता सुवर्णवर्णा सद पक्षिणा अभूत् । मार्ग च ते दर्शयि अग्रबोधये दिव्या मनोज्ञा मधुरस्वरांश्च संश्रावयिष्यन्ति च नित्यकालम् ॥ अथ नन्दिमित्रमहाश्रावको राज्ञोऽजितसेनस्य गाथा भाषित्वा तूष्णीं स्थितोऽभूत् । अथ राजा अजितसेनो भेरी पराहन्ते स्म । 2 Ms. •तुण्डी 1 Ms. कोकिलादीनि ते 3 Ms. .हनन्ते For Private and Personal Use Only

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266