________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अजितसेनव्याकरणम् ये तिर्यग्योनिगताः पक्षिणः शुकशारिकाचक्रवाकमयूरकोकिलादयस्ते नानारुतानि कुर्वन्ति स्म । अथ तवैव उद्यानभूमौ सुवर्णवर्णाः सुवर्णतुण्डाः' सुवर्णपक्षाः सुवर्णपादाः पक्षिणः प्रादुर्भूताः। ते सर्वे बुद्धशब्दं निश्वारयन्ति । अथ नन्दिमित्रमहाश्रावको येन राज्ञोऽजितसेनस्य राजधानी तेनोपसंक्रान्तः। अथ राजा अजित. सेनस्तं नन्दिमित्रं महाश्रावकमेवमाह । आगतस्त्वं महाश्रावक । दृष्टोद्यानभूमिः। नन्दिमित्र आह । दृष्टा मयोद्यानभूमी रमणीया सुशोभना। अथ नन्दिमित्रं महाश्रावकं राजा अजितसेनो गाथाभिरध्यभाषत।
ये जम्बुद्वीपे परिभोगमासी
अधिमुक्तकचम्पकधानुष्कारिका । अशोकमुचिलिन्द तथैव पाटला
सौगन्धिकाश्च सुमना च वार्षिका ॥ तदा पारियात्रा नदीतीरनिर्मिता सुवर्णवर्णा सद पक्षिणा अभूत् ।
मार्ग च ते दर्शयि अग्रबोधये दिव्या मनोज्ञा मधुरस्वरांश्च
संश्रावयिष्यन्ति च नित्यकालम् ॥ अथ नन्दिमित्रमहाश्रावको राज्ञोऽजितसेनस्य गाथा भाषित्वा तूष्णीं स्थितोऽभूत् । अथ राजा अजितसेनो भेरी पराहन्ते स्म ।
2 Ms. •तुण्डी
1 Ms. कोकिलादीनि ते 3 Ms. .हनन्ते
For Private and Personal Use Only