________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८
अजितसेनव्याकरणम् ये भिक्षुसंघस्य ददेय दानं
न तस्य यक्षा न च राक्षसाश्च ॥ (न प्रेतकुष्माण्डमहोरगाश्च
विघ्न न कुर्वन्ति कदाचि तेषाम् ।। (ये भिक्षुसंघाय ददन्ति दानं
सुदुर्लभं तस्य मनुष्यलाभम् ॥ यो दुर्लभं दर्शनु भिक्षुभावं
सुदुर्लभं कल्पशतैरचिन्तियैः। यो लोकनाथस्य हि नामु धारये ... कल्पान कोटीनयुतानचिन्तिया ॥ न जातु गच्छे विनिपातदुर्गतिं
यो ईदृशं पश्यति भिक्षुराजम् । न तस्य भोती विनिपातदुर्गतिं
यो ईदृशं पश्यति भिक्षुराजम् ॥ कल्याणमित्रं मम मार्गदर्शको
(य) स आगताये मम पिण्डपातिका । यो दास्यते अस्य हि पिण्डपातं
मुक्ता न भेष्यंति जरातव्याधया॥ क्लेशा विनिर्मुक्त सदा तु भेष्यति
ये तस्य दास्यन्तिह पिण्डपातम् ।। अथ स राजा अजितसेनो नन्दिमित्रं महाश्रावकं गुणवर्णमुदीरयित्वा तूष्णों स्थितोऽभूत्। अथ नन्दिमित्रो महाश्रावको
For Private and Personal Use Only