Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu

View full book text
Previous | Next

Page 235
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११६ अजितसेनव्याकरणम् स्तेनोपसंक्रान्तः। अथ सोऽमात्यो नन्दिमित्रं महाश्रावकमेवमाह । आगच्छ महाश्रावक भिक्षो राजा ते आज्ञापयति । अथ नन्दिमित्रो महाश्रावकोऽमात्यमेवमाह । मम राज्ञा किं कार्यं मम राजा किं करिष्यति।अथामात्यो येन राजाजितसेनस्तेनोपसंक्रान्तः ।तंराजानमजितसेनमेवमाह। न च स भिक्षुस्तव पार्वे आगच्छति । अथ राज्ञाजितसेनेन पञ्चामात्यशतानि प्रेषितानि । न च स भिक्ष राज्ञोऽजितसेनस्य पार्श्वमागच्छति। अथ स राजा स्वकेनैवात्मभावेन येन स नन्दिमित्रमहाश्रावकस्तेनोपसंक्रान्तः। उपसंक्रम्य कृताञ्जलिरेवमाह । आगच्छ भो भिक्षो मम राजधानी प्रविश। अथ राजा अजितसेनो दक्षिणहस्ते तं भिक्षुगृहीत्वा स्वकां राजधानी प्रविष्टोऽभूत् । अथ राज्ञाजितसेनेन नन्दिमित्रस्य भिक्षोः सिंहासनं दत्तमभूत् । अथ राजाजितसेनो' भद्रपीठके निषद्य' तं नन्दिमित्रं महाश्रावकमेवमाह। कुत्र त्वं भिक्षो गच्छसि । को हेतुः कः प्रत्ययः । अथ नन्दिमित्रो महाश्रावको राजानमजितसेनमेवमाह। ये केचिद् भिक्षुप्रव्रजितास्ते सर्वे भिक्षाहाराः पिण्डपातमवचरन्त: परिभुञ्जन्ति। . अथ राजा अजितसेनस्तं नन्दिमित्रं महाश्रावकमेवमाह। परिभुक्ष्व मम गृहे पिण्डपातम् । यावज्जीवं पिण्डपातं प्रदास्यामि । यदि ते' भिक्षो मम स्वमांसेन कार्य स्वमांसं दास्यामि । अथ नन्दिमित्रो महाश्रावको राजानमजितसेनं गाथाभिरध्यभाषत । 1 Ms. राजाजितसेन एवमाह 3 Ms. गृह्य 5 Ms. निषीदित्वा 7 Ms. त्वं 2 Ms. राजानं 4 Ms. सेनेन 6 Ms. परिभुजख 8 Ms. °सेनस्य For Private and Personal Use Only

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266