Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu

View full book text
Previous | Next

Page 234
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अजितसेनव्याकरणम् ११५ यास्यन्ति। ईदृशान्यानन्द' गण्डीशब्दस्य कुशलमूलानि । अथायुष्मानानन्दः शान्तप्रशान्तेन गण्डीमाकोटयते स्म। अथ तेन गण्डीशब्देन सर्वे ते महाश्रावकाः सन्निपतिता अभूवन् । यथा यथा आसने निषण्णाः पिण्डपातं परिभुञ्जन्ते स्म। अथ तत्रैव श्रावकमध्ये नन्दिमित्रो नाम महाश्रावकः सन्निपतितोऽभूत् सन्निषण्णः। अथ भगवानायुष्मन्तं नन्दिमित्रं महाश्रावकमामन्त्रयते स्म। गच्छ त्वं नन्दिमित्र महाश्रावक पूर्वस्यान्दिशि मगधविषये राज्ञोऽजितसेनस्य कल्याणमित्रपरिचया कुरु। अथ नन्दिमित्रो महाश्रावको भगवन्तमेवमाह। न भगवन् शक्ष्यामस्तं पृथिवीप्रदेशं गन्तुम् । दुरासदास्ते सत्त्वाः। ते मां जीविताद्व्यवरोपयिष्यन्ति । अथ भगवानायुष्मन्तं तं नन्दिमित्रं महाश्रावकमेवमाह। न ते सत्त्वास्ते शक्ष्यन्ते बालाग्रमपि कम्पयितुं प्रागेव जीविताद्व्यवरोपयितुम् । अथ नन्दिमित्रो महाश्रावकः प्रत्यूषकालसमये सुवर्णवर्णं वस्त्रं प्रावृत्य' येन पूर्वस्यान्दिशि मगधविषये राज्ञोऽजितसेनस्य राजधानी 'तेनानुक्रान्तोऽभत्। अथ राजा अजितसेनस्तं नन्दिमित्रं महाश्रावकं दृष्ट्रा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातोऽभत्। अथ राज्ञाजितसेनेन अमात्यः प्रेषितोऽभूत् । गच्छैनं भिक्षुमानय । तदा सोऽमात्यो येन नन्दिमित्रो महाश्रावक 1 Ms. ईदृशमानन्द 2 Parasmaipada has also been used elsewhere. 4 Ms. मम 3 Ms. राजानमजित. 5 Ms. स्तं 6 Ms. कपयितु 7 Ms. प्रावरित्वा 8 Ms. मनुक्रान्तो 9... Ms. गच्छायं भिक्षुरानयेत् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266