Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu

View full book text
Previous | Next

Page 232
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अजितसेनव्याकरणम् ११३ अथ च सा दारिका तुष्टा उदग्रा आत्तमनाः प्रमुदिता प्रीतिसौमनस्यजाता स्वगृहगमनमारब्धा। अथ भगवास्तां दारिकामेवमाह । त्वं दारिके सप्तमे दिवसे कालं करिष्यसि । कालं कृत्वा । पूर्वस्यान्दिशि मगधविषये राजा अजितसेनो नाम। तस्य राज्ञोऽजितसेनस्य अन्तःपुरसहस्रमस्ति । तस्य खलु पुना' राज्ञोऽजितसेनस्य पुत्रो जनिष्यसे । एष एव तव पश्चिमो गर्भवासो भविष्यति। अथ भगवान् पश्चिमकेन नगरद्वारेण श्रावस्त्या महानगर्या निष्क्रान्तो येन जेतवनं विहारस्तेनोपसंक्रान्तः । अथायुष्मानानन्दो भगवन्तं दूरत एवागच्छन्तं दृष्ट्रा पादौ शिरसाभिवन्द्य त्रिः प्रदक्षिणीकृत्य भगवन्तं गाथाभिरध्यभाषत । सुवर्णवर्णं वरलक्षणार्चितं द्वाविंशतिलक्षणरूपधारिणम् । यदा त्वया आगतु पिण्डपातिका विमोचयित्वा इह सर्वसत्त्वा ॥ सुखेन संस्थापयि सर्वसत्त्वा मैत्रीबलं सर्वजगत्त्वया कृतम् । स पिण्डपातं वरमाण्डनायक विमोचितस्ते जगती भया च ॥ ये बोधिसत्त्वा इह जम्बुद्वीपे सर्वे च मार्ग तव दर्शयन्ति । 1 Ms. पुन Ms. जास्यसि 3 Ms. विहारं तेनो० १५ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266