________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अजितसेनव्याकरणम्
११३ अथ च सा दारिका तुष्टा उदग्रा आत्तमनाः प्रमुदिता प्रीतिसौमनस्यजाता स्वगृहगमनमारब्धा। अथ भगवास्तां दारिकामेवमाह । त्वं दारिके सप्तमे दिवसे कालं करिष्यसि । कालं कृत्वा । पूर्वस्यान्दिशि मगधविषये राजा अजितसेनो नाम। तस्य राज्ञोऽजितसेनस्य अन्तःपुरसहस्रमस्ति । तस्य खलु पुना' राज्ञोऽजितसेनस्य पुत्रो जनिष्यसे । एष एव तव पश्चिमो गर्भवासो भविष्यति।
अथ भगवान् पश्चिमकेन नगरद्वारेण श्रावस्त्या महानगर्या निष्क्रान्तो येन जेतवनं विहारस्तेनोपसंक्रान्तः । अथायुष्मानानन्दो भगवन्तं दूरत एवागच्छन्तं दृष्ट्रा पादौ शिरसाभिवन्द्य त्रिः प्रदक्षिणीकृत्य भगवन्तं गाथाभिरध्यभाषत ।
सुवर्णवर्णं वरलक्षणार्चितं
द्वाविंशतिलक्षणरूपधारिणम् । यदा त्वया आगतु पिण्डपातिका
विमोचयित्वा इह सर्वसत्त्वा ॥ सुखेन संस्थापयि सर्वसत्त्वा
मैत्रीबलं सर्वजगत्त्वया कृतम् । स पिण्डपातं वरमाण्डनायक
विमोचितस्ते जगती भया च ॥ ये बोधिसत्त्वा इह जम्बुद्वीपे
सर्वे च मार्ग तव दर्शयन्ति । 1 Ms. पुन Ms. जास्यसि 3 Ms. विहारं तेनो०
१५
For Private and Personal Use Only