________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२
अजितसेनव्याकरणम् खलु पुनः समयेन पद्मावती नाम राजधान्यभूत्। तेन खलु पुनः समयेन पद्मावत्यां राजधान्यां पद्मप्रभो नाम गृहपतिरभूत् । तस्य पद्मप्रभस्य गृहपतेस्त्वं दुहिताऽभूः । तेन खलु पुनः समयेन ग्रामनगरनिगमजनपदेषु पिण्डपातिको भिक्षुः पिण्डपातायावतरति । यदा त्वद्गृहमागतोऽभूत् तदा त्वं दारिके पिण्डपातं गृहीत्वा गृहान्निष्क्रान्ता पुनरेव प्रविष्टाऽभूः । न चाहं मुण्डितशिरसोऽधन्यस्य पिण्डपातं दास्यामि। तेन कर्मोपचयेन त्वया' दारिके द्वादशकल्पसहस्राणि पुनः पुनर्दरिद्रगृहे दुःखान्यनुभूतानि । एकेन त्वया दारिके कुशलमूलेन बोधिव्याकरणं प्रतिलप्स्यसे। यत्त्वया तस्य भिक्षो रूपलिङ्गसंस्था न दृष्टा भविष्यसि त्वं दारिके अनागतेऽध्वनि अचिन्त्यैरपरिमाणैः कल्पैनगरध्वजो नाम तथागतोऽर्हन सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् लोके । अथ सा दारिका भगवन्तं त्रिः प्रदक्षिणं कृत्वमाह । कीदृशं भगवन् मम बुद्धक्षेत्रं भविष्यति यत्रैवाहं बुद्धो भविष्यामि । भगवानाह। अपरिमितगुणसंचया नाम सा बुद्धक्षेत्रं भविष्यति । यादृशी च सा सुखावती लोकधातुः तादृशं तबुद्धक्षेत्र भविष्यति। पर्यङ्कनिषण्णा आर्योपपादुका बोधिसत्त्वा भविष्यन्ति । ईदृशं तद्बुद्धक्षेत्रम्।
1 Ms. धानीरभूत् 2 Ms. ० रभूवन् . 3 तरमभूवन् 5 Ms. त्वं गृहमागतमभुवन् 6 Ms. भूत् 8 Ms. दुःखमनुभूतानि 9 Ms. दृष्ट्रा 10 Ms. adds भविष्यामि
4 Ms. तदा
7
Ms. त्वं
For Private and Personal Use Only