________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अजितसेनव्याकरणम्
१११ दारिकां कलाविङ्करुतस्वरनिर्घोषेणैवमाह। प्रतिनिवर्तस्व' [दारिके पूर्वजातिनिदानं स]मनुस्मरामि तदहं परिकीर्तयिष्यामि । [अथ सा दारिका प्रतिनिवृत्यैवमाह ।
परिकीर्तय लोकविनायकाद्य
__ याद्यत् कृतं पाप सदा सुदारुणम् । अवश्य मे पापु कृतं सुदारुणं
येना[हं जातु] दरिद्रके गृहे ॥ त्वं सार्थवाहु इह सर्वलोके
विमोचये में इह इस्त्रिभावा । त्राणं भवाही शरणं परायणं
कृतज्ञहं नित्य भवामि नायके ॥ संश्रावये मं इमु धर्मनेत्री
नासौ कदाचित्तजते अपायम् । संशोधयी कर्म यथाकृतं मया
त्राणं भवाही शरणं परायणम् ॥ असङ्गज्ञानी वरलोकनायक
वन्दामि नाथ शरणं कृताञ्जली॥ अथ भगवान् तां दारिकामेवमाह। भूतपूर्वो दारिके अतीतेऽध्वनि असंख्येयैः कल्पै रत्नशिखी नाम तथागतोऽर्हन् सम्यकसम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । तेन - 1 Ms. प्रतिनिवर्तत्वं
2 Ms. प्रतिनिवत्यैव०
For Private and Personal Use Only