Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu

View full book text
Previous | Next

Page 231
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२ अजितसेनव्याकरणम् खलु पुनः समयेन पद्मावती नाम राजधान्यभूत्। तेन खलु पुनः समयेन पद्मावत्यां राजधान्यां पद्मप्रभो नाम गृहपतिरभूत् । तस्य पद्मप्रभस्य गृहपतेस्त्वं दुहिताऽभूः । तेन खलु पुनः समयेन ग्रामनगरनिगमजनपदेषु पिण्डपातिको भिक्षुः पिण्डपातायावतरति । यदा त्वद्गृहमागतोऽभूत् तदा त्वं दारिके पिण्डपातं गृहीत्वा गृहान्निष्क्रान्ता पुनरेव प्रविष्टाऽभूः । न चाहं मुण्डितशिरसोऽधन्यस्य पिण्डपातं दास्यामि। तेन कर्मोपचयेन त्वया' दारिके द्वादशकल्पसहस्राणि पुनः पुनर्दरिद्रगृहे दुःखान्यनुभूतानि । एकेन त्वया दारिके कुशलमूलेन बोधिव्याकरणं प्रतिलप्स्यसे। यत्त्वया तस्य भिक्षो रूपलिङ्गसंस्था न दृष्टा भविष्यसि त्वं दारिके अनागतेऽध्वनि अचिन्त्यैरपरिमाणैः कल्पैनगरध्वजो नाम तथागतोऽर्हन सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् लोके । अथ सा दारिका भगवन्तं त्रिः प्रदक्षिणं कृत्वमाह । कीदृशं भगवन् मम बुद्धक्षेत्रं भविष्यति यत्रैवाहं बुद्धो भविष्यामि । भगवानाह। अपरिमितगुणसंचया नाम सा बुद्धक्षेत्रं भविष्यति । यादृशी च सा सुखावती लोकधातुः तादृशं तबुद्धक्षेत्र भविष्यति। पर्यङ्कनिषण्णा आर्योपपादुका बोधिसत्त्वा भविष्यन्ति । ईदृशं तद्बुद्धक्षेत्रम्। 1 Ms. धानीरभूत् 2 Ms. ० रभूवन् . 3 तरमभूवन् 5 Ms. त्वं गृहमागतमभुवन् 6 Ms. भूत् 8 Ms. दुःखमनुभूतानि 9 Ms. दृष्ट्रा 10 Ms. adds भविष्यामि 4 Ms. तदा 7 Ms. त्वं For Private and Personal Use Only

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266