________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आर्यश्रीमहादेवीव्याकरणम् ___अथ खल्वार्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्यैकान्ते' न्यषीदत्। श्रीरपि महादेवी [भगवन्तमेवोपसंक्रान्ता । उपसंक्रम्य भगवतः पादौ शतसहस्र प्रदक्षिणीकृत्य सर्वांश्च तान् सुखावतीनिवासिनो बोधिसत्त्वान् महासत्त्वान् शिरसाभिवन्द्यैकान्ते न्यषीदत्।
(अथ खलु भगवाननेकशतसहस्रपुण्यालंकृतस्तथागतकोटिपरिवृतः सर्वशक्रब्रह्मलोकपालस्तुतस्तवितः श्रियं महादेवी दृष्टा महाब्रह्मस्वरेणावलोकितेश्वरं बोधिसत्त्वं महासत्त्वमेतदवोचत् यः कश्चिदवलोकितेश्वर राजा वा राजमात्रो वा भिक्षुभिक्षुण्युपासकोपासिका वा ब्राह्मणक्षत्रियविटशूद्रा वा श्रिया महादेव्या अष्टोत्तरं शतं विमलप्रख्यं नाम स्तोत्रं धारयिष्यन्ति तस्य राज्ञः क्षत्रियस्य विषये तेषां सत्त्वानां सर्वभयेत्युपद्रवा प्रशमिष्यन्ति। सर्वचोरधूर्तमनुष्यामनुष्यभियं] न भविष्यति। सर्वधनधान्यकोशकोष्ठागारविवृद्धिर्भविष्यति । तस्य च राज्ञः क्षत्रियस्य गृहे श्रीनिवसिष्यति । अथ ते बोधिसत्त्वा महासत्त्वा एवं वाचमभाषन्त। साधु साधु
1 Ms. puts the words शत...महासत्त्वान् alter शिरसाभिवन्ध । The ulteration has been made here in the light of the Tibetan rendering.
2 Tib. Pठेगा । 3 Ms. ०सत्त्वो।
4_Ms. अष्टुत्तरं । 5 Tib. ही माला मारा। 6 Correct Sanskrit would be निवतस्यति ।
For Private and Personal Use Only