Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(अजितसेनव्याकरणम् ।
ॐ नमः सर्वज्ञाय ॥ ( एवं मया श्रुतमेकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म जेतवने अनाथपिण्डदस्यारामे महता भिक्षुसङ्घन सार्धमर्धत्रयोदशभिर्भिक्षुसहस्रः। तद्यथा आयुष्मता चाज्ञातकौण्डिन्येन आयुष्मता च महानाम्ना आयुष्मता च रेवतेन आयुष्मता च वक्कुलेन आयुष्मता च शारिपुत्रेण आयुष्मता च] पूर्णेन मैत्रायणी पुत्रेण च श्रावकनियुतैः। ते सर्वे येन भगवान् येन च जेतवनं विहारं तेनोपसंक्रान्ता भगवतः पादौ शिरसाभिवन्द्य भगवतः पुरतस्तस्थुभत्रिंशता' बोधिसत्त्वसहस्रः। तद्यथा सहचित्तोत्पादधर्मचक्रप्रवर्तनेन च बोधिसत्त्वेन महासत्त्वेन अनिक्षिप्तधुरेण च बोधिसत्त्वेन महासत्त्वेन मैत्रेयेण च बोधिसत्त्वेन महासत्त्वेन अवलोकितेश्वरेण च बोधिसत्त्वेन महासत्त्वेन महास्थामप्राप्त न च बोधिसत्त्वेन महासत्त्वेन । एवंप्रमुखै त्रिंशता' बोधिसत्त्वसहस्रः। ते सर्वे येन भगवान् येन च जेतवनं विहारं तेनोपसंक्रान्ता भगवतः पादौ शिरसाभिवन्द्य भगवतः पुरतस्तस्थुः । अथ खलु भगवान् पूर्वाह्नकालसमये निवास्य पात्रचीवरमा[त्रः] श्रावस्ती महानगरी पिण्डाय प्राविशत् । अथ भगवानायुष्मन्तमा
1 Ms. त्रिंशतिभिः
For Private and Personal Use Only

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266