Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu

View full book text
Previous | Next

Page 214
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १३ आर्यश्रीमहादेवी व्याकरणम् व्रतसन्नाह सुमेरुश्रिये तथागताय । नमो ब्रह्मश्रिये तथागताय । नमो महेश्वरश्रिये तथागताय । नमश्चन्द्रसूर्यश्रिये तथागताय । नमो गम्भीरधर्मप्रभाराजश्रिये तथागताय । नमो गगनप्रदीपा भिरामश्रिये तथागताय । नमः सूर्यप्रभाकेतुश्रिये तथागताय । नमो गन्धप्रदीपश्रिये तथागताय । नमः सागरगर्भसंभवश्रिये तथागताय। नमो निर्मितमेघगर्जन [ यशः ] श्रिये' तथागताय । नमः सर्वधर्मप्रभासव्यूहश्रिये तथागताय । नमो द्रुमराजविवर्धितश्रिये तथागताय । नमो रत्नाचिः पर्वतश्रिये तथागताय । नमो ज्ञानाचि:सागरश्रिये तथागताय । नमो महाप्रणिधिवेगश्रिये तथागताय । नमो महामेघश्रिये तथागताय । नमः स्मृतिकेतुराजश्रिये तथागताय । नम इन्द्रकेतुध्वजराजश्रिये तथागताय । नमः सर्वधनधान्याकर्षणश्रिये तथागताय । नमः सौम्याकर्षणश्रिये तथागताय । नमो लक्ष्म्याकर्षणश्रिये तथागताय । इमानि तथागतनामानि सत्कृत्य धारयितव्यानि वाचयितव्यानि एवं स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति । व्याकृता च श्रीमहादेवी तथागतैः I भविष्यसि त्वं श्रीमहादेवि अनागतेऽध्वनि श्री [ महा ] रत्नप्रतिमण्डितायां * लोकधातौ तव श्रीमणिरत्नसम्भवो नाम तथागतोऽर्हन् सम्यक् सम्बुद्धः । सा च लोकधातुर्नानादिव्यरत्नप्रतिमण्डिता भविष्यति । 1. Ms. निर्मितमेघसम्बर० Tbধজ'ম-ৗা'ম" মুম-সই སྐྲ་སྙན་པའི་དཔལ་ལ་ ཕྱག་འཚལ་ལོ ། 3 Ms. धारयितव्यम् । Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ६७ 2 Ms. सत्कृत्यम् । 4. Tib. ठेवा ऐकेस |

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266