Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वतथागताधिष्ठान-सत्त्वावलोकन बुद्धक्षेत्रसन्दर्शन-व्यूहम् लाभा अस्माभिः सुलब्धाः । योऽस्माभिः श्रुतम् अपथगामिनां पथमुपदर्शयति अनर्थे अर्थसंज्ञिनाम् अनित्ये नित्यसंज्ञिनाम् असुखे सुखसंज्ञिनां यदस्माभिर्नरकतिर्यग्योनियमलोकपरिमोक्षणार्थं तथागतकृत्यं कृतम् । अवलोकितेश्वर आह। महाकृत्येन तथागतकृत्येन इमं धर्मपर्यायं सर्वसत्त्वानां प्रकाशितम् । ____ भगवानाह। अयं च कुलपुत्र धर्मपर्यायः पश्चिमे काले पश्चिमे समये दक्षिणापथे प्रचरिष्यति तत्रापि भिक्षुभिक्षुण्युपासकोपासिकाराजराजपुत्रमहामात्रामात्या भाजनीभूताः पजका धारका वाचका भविष्यन्ति श्रद्धास्यन्ति पत्तीष्यन्ति। स चे उत्तरपूर्वपश्चिमायां प्रचरे तत् परकर्माभियुक्तास्ते सत्त्वा भविष्यन्ति न श्रोष्यन्ति न श्रद्धास्यन्ति न पत्तीष्यन्ति न पजयिष्यन्ति हीनवीर्यनष्टस्मृतयो नानाव्याक्षेप-कुटम्बदासदासीभोगैश्वर्य-हास्यलास्यनाट्यनृत्यगीतेामात्सर्यस्मृतयो न श्रोष्यन्ति न पत्तीष्यन्ति नपजयि. ष्यन्ति ते अपरिमुक्ता एव जरा-व्याधि-मरण-शोक-परिदेव-दुःखदौर्मनस्योपायासेभ्यः प्रेतयमलोकविषयेभ्यो भविष्यन्ति । तस्मात्तर्हि तैः कुलपुत्रैः कुलदुहितृभिर्वा सर्वापायैरात्मानं परिमोक्तुकामेन सत्कृत्य अयं धर्मपर्यायः पूजयितव्यो धारयितव्यः सत्कर्तव्यः परेभ्यः संप्रकाशतितव्यो मनसा धारयितव्यः। डिम्बडुमरदुःस्वप्न. दुनिमित्तेषु अकालमृत्यु-गोमर-पशुमर-मानुषमरेभ्यो नानाव्याधि. भयोपद्रवेभ्य इमं धर्मपर्यायं पजयित्वा वाचयितव्यः ध्वजे वा उच्छ पितं कृत्वा पूजयित्वा नानागन्धपुष्पधूपवाद्यैः प्रचेष्टव्यः । चतुर्दिशे बलिं ईत्त्वाभिनमस्कृत्य पुष्पधूपगन्धैः सर्व इत्युपद्रवाः प्रशमं यास्यन्ति ।
For Private and Personal Use Only

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266