Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८८
དད་ सर्वतथागताधिष्ठान-सत्त्वावलोकन-बुद्धक्षेत्रसन्दर्शनव्यूहम् दौर्मनस्यं नारकं दुःखमनुभविष्यन्ति । ततस्ते अनेकानि कल्पकोटीशतानि दुःखमनुभवित्वा नरकतिर्यग्योनियमलोकेषु वोपपत्स्यन्ते । दीर्घरात्रमकल्याणमित्रवशा: पश्वानुतापिनो भविष्यन्ति इमं क्षणं विरागयित्वा। तस्मात्तर्हि काय[वाङ्म]नःसंवरेण भवितव्यम् । बुद्धधर्मसंधे [अभेद्यप्रसादेन सर्वसत्त्वेषु मैत्रचित्तेन ईर्ष्यामात्सर्यदौःशील्यचित्तपरिवर्जितेन क्रोधपरिवर्जितेन भवितव्यम् ।
अथ सा यथासमागता पर्ष तैस्तैः पुण्याभिसंस्कारैः तथागतं 'पूजयति स्म। दिव्यपुष्पगन्धमाल्यविलेपनवस्त्राभरणैः किलिकिलि प्रवेडिंतशब्दैश्च दिव्यतूर्यताडावचरसंगीतः साधुकारं 'प्रददौ। तद् यथा साधु साधु भगवन् सुभाषितमिदं महाधर्मपर्यायं सर्वसत्त्वानामर्थाय तथागतशासनचिरस्थित्यर्थम् । ___अथायुष्मानानन्दो भगवन्तमेतदवोचत् । किंनामायं भगवन् धर्मपर्यायः कथं च वयं भगवन् धारयामः । भगवानाह । तस्मात्तर्हि त्वमानन्द इमं धर्मपर्यायं सर्वतथागतज्ञानबोधिसत्त्वभूमिक्रमणमित्यपि नाम धारय । ऋद्धिविकुर्वाणमहात्मसन्निपातमित्यपि नाम धारय। सर्वतथागताधिष्ठानसत्त्वावलोकनबुद्धक्षेत्रसन्दर्शनव्यूहमित्यपि नाम धारय । इदमवोचद् भगवान् । आत्तमनाः आर्यावलोकितेश्वरमंजुश्रीवज्रपाणिप्रभृतयः सर्वे बोधिसत्त्वा महासत्त्वाः सर्वे च महाश्रावकाः सर्वे च शक्रब्रह्मलोकपालाश्चत्वारश्च
1 Ms. पूज्यन्ते Tib. अलल 3 Ms. प्रददुः
For Private and Personal Use Only

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266