SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८८ དད་ सर्वतथागताधिष्ठान-सत्त्वावलोकन-बुद्धक्षेत्रसन्दर्शनव्यूहम् दौर्मनस्यं नारकं दुःखमनुभविष्यन्ति । ततस्ते अनेकानि कल्पकोटीशतानि दुःखमनुभवित्वा नरकतिर्यग्योनियमलोकेषु वोपपत्स्यन्ते । दीर्घरात्रमकल्याणमित्रवशा: पश्वानुतापिनो भविष्यन्ति इमं क्षणं विरागयित्वा। तस्मात्तर्हि काय[वाङ्म]नःसंवरेण भवितव्यम् । बुद्धधर्मसंधे [अभेद्यप्रसादेन सर्वसत्त्वेषु मैत्रचित्तेन ईर्ष्यामात्सर्यदौःशील्यचित्तपरिवर्जितेन क्रोधपरिवर्जितेन भवितव्यम् । अथ सा यथासमागता पर्ष तैस्तैः पुण्याभिसंस्कारैः तथागतं 'पूजयति स्म। दिव्यपुष्पगन्धमाल्यविलेपनवस्त्राभरणैः किलिकिलि प्रवेडिंतशब्दैश्च दिव्यतूर्यताडावचरसंगीतः साधुकारं 'प्रददौ। तद् यथा साधु साधु भगवन् सुभाषितमिदं महाधर्मपर्यायं सर्वसत्त्वानामर्थाय तथागतशासनचिरस्थित्यर्थम् । ___अथायुष्मानानन्दो भगवन्तमेतदवोचत् । किंनामायं भगवन् धर्मपर्यायः कथं च वयं भगवन् धारयामः । भगवानाह । तस्मात्तर्हि त्वमानन्द इमं धर्मपर्यायं सर्वतथागतज्ञानबोधिसत्त्वभूमिक्रमणमित्यपि नाम धारय । ऋद्धिविकुर्वाणमहात्मसन्निपातमित्यपि नाम धारय। सर्वतथागताधिष्ठानसत्त्वावलोकनबुद्धक्षेत्रसन्दर्शनव्यूहमित्यपि नाम धारय । इदमवोचद् भगवान् । आत्तमनाः आर्यावलोकितेश्वरमंजुश्रीवज्रपाणिप्रभृतयः सर्वे बोधिसत्त्वा महासत्त्वाः सर्वे च महाश्रावकाः सर्वे च शक्रब्रह्मलोकपालाश्चत्वारश्च 1 Ms. पूज्यन्ते Tib. अलल 3 Ms. प्रददुः For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy